SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ १०५ सूरिप्रणीतम् ] श्रीशलेश्वरपार्श्वनाथस्तवनम्। परिशिष्टम् श्रीमुनिचन्द्रसूरिप्रणीतं प्रबन्धगतं श्रीशर्केश्वरपार्श्वनाथस्तवनम् । समस्तकल्याणनिधानकोशं वामाङ्गकुक्येकमृणालहंसम् । अलङ्कृतेक्ष्वाकुविशालवंशं वन्दे सदा शङ्खपुरावतंसम् ॥१॥ आराधितः श्रीऋषभस्य काले विद्याधरेन्द्रेण नमीश्वरेण । पूर्व हि वैताब्यगिरौ जिनं तं वन्दे सदा शङ्खपुरावतंसम् ॥२॥ यः पूजितः पन्नगनायकेन पातालभूमौ भवनाधिपेन । कालं कियन्तं जिननायकं तं वन्दे सदा शङ्खपुरावतंसम् ॥३॥ यदा जरासन्धजयोद्यतेन कृष्णेन नेमीश्वरशासितेन । पातालतो बिम्बमिदं तदानीमानीय संस्थापितमेव तीर्थम् । ॥४॥ ज्वरातभूतं स्वबलं विलोक्य यत्स्नात्रपीयूषजलेन सिक्तम् । सज्जीकृतं तत्क्षणमेव सर्वं वन्दे सदा शङ्खपुरावतंसम् ॥ ५ ॥ पञ्चाशदादौ किल पश्चयुक्ते एकादशे वर्षशते व्यतीते । निवेशितः सज्जनश्रेष्ठिनाय वन्दे सदा शङ्खपुरावतंसम् ॥ ६ ॥ काले कलौ कामगवी प्रणष्टा चिन्तामणिः कल्पतरुश्च नष्टः । धत्ते ह्यसौ तत्प्रतिहस्तकत्वं, वन्दे सदा शङ्खपुरावतंसम् ॥ ७ ॥ प्रभूतरोगेण विनष्टदेह आराध्य यं दुर्जनशैल्यदेवः। चकार देहं मदनस्य तुल्यं वन्दे सदा शङ्खपुरावतंसम् ॥ ८॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy