SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ १०६ जैन स्तोत्रसन्दोहे | [ श्रीनयचन्द्र राज्यार्थिनां राज्यसुखप्रदाता सुतार्थिनां सन्ततिदायको यः । नेत्रार्थिनां लोचनदोऽस्ति नित्यं वन्दे सदा शङ्खपुरावतंसम् ॥ ९ ॥ इति स्तुतः श्रीमुनिचन्द्रसूरिणा कृपाकरः शङ्खपुरावतार ! | प्रबन्धकादौ प्रणतासुभाजां प्रयच्छ नित्यं निजपादसेवाम् ॥ १० ॥ चपरिशिष्टम् श्रीनयचन्द्रसूरिविरचितं श्रीस्तम्भनपार्श्वनाथस्तवनम् । सेढीतटस्तम्भनकप्रतिष्ठः श्रीपार्श्वनाथः सुगुणैर्गरिष्ठः । पायादपायादलिनीलकायः सिद्ध्यङ्गनासङ्घटनाभ्युपायः ॥ १ ॥ तस्याहमुच्चैर्हरिशब्दवाच्यैः स्तोत्रं नवं षोडशभिर्विधास्ये । वाचां च तत्र प्रथमं निधास्ये यथाक्रमं ताश्च तथाभिधास्ये ॥ २॥ हयवायुजनार्दनसिंहविधूरगभेककपीन्द्रशुकार्कयमैः । घृणिपिङ्गभवाम्बुधिनीलगुणैर्हरिशब्दभवैः प्रणवीमि जिनम् ॥३॥ जय मुक्ति महापुरमार्गहरे ! जय विघ्नघटोघननाशहरे ! | जय मन्मथकैटभघातहरे ! जय मोहमतङ्गजभङ्गहरे ! ॥ ४ ॥ जय सङ्घसमुद्रविबोधहरे ! जय सप्तफणामणिकान्तिहरे ! | जय गाढजडत्वनिषेधहरे ! जय पापलताफलपातहरे ! ।। ५ ।। जय मानमहीधरदारहरे ! जय योगमहासहकारहरे ! । जय भव्यजनाम्बुजबोधहरे ! जय रागरिपुप्रलयैकहरे ! ||६||
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy