________________
wwwwwww
१०४
जैनस्तोत्रसन्दोहे। [श्रीमुनिचन्द्रकैः ! 'दानवेन्द्रः' दैत्यपुरुहूतैः । किं जनयति ? ' लक्ष्मीसौभाग्यरूपम् लक्ष्मीश्च सौभाग्यं च रूपं च लक्ष्मीसौभाग्यरूपम् । कीदृशं तत् ? 'दलितकलिमलम्' निर्दलितपापमलम् । तथा मङ्गलं जनयति । केषाम् ? 'मङ्गलानाम्' निःश्रेयसानामपि मध्ये विशिष्टं निःश्रेयसं जनयतीत्यर्थः ।
पुनरपि कथम्भूतम् ? 'पूज्यम्' । पुनरपि कीदृशम् ? "कल्याणमान्यम्। कल्याणैर्मान्यं कल्याणमान्यम्-कुशलयुक्तम् । कथम् ? 'सततम्' निरन्तरम् । केषाम् ? 'पटुतरपठताम् ' स्पष्टतर भणताम् । कथम् ‘भक्तिपूर्व' भक्तिपुरस्सरम । न केवलं भक्तिपूर्व । त्रिसन्ध्यं च । किं कर्मतापत्रम् ? 'स्तोत्रम्' स्तवनम् । कीदृशम् ? 'दिव्यम्' प्रधानम् । पुनरपि कीदृशम् ? 'पवित्रम्' । अर्ध्या पार्श्वदेवविरचितायां पद्मावत्यष्टकवृत्तौ यत् किमप्यवयं पतितं तत्सर्व क्षन्तव्यं देवताभिरिति ॥
वर्षाणां द्वादशभिः शतैर्गतैस्त्युत्तरैरियं वृत्तिः । वैशाखे सूर्यदिने समर्थिता शुक्लपञ्चम्याम् ॥ अस्या वृत्त्या अक्षरगणनातः पञ्चशतानि जातानि । द्वाविंशदक्षराणि च सदनुष्टुप्छन्दसां प्रायः ॥