________________
विरचितवृत्तियुतम् ] पद्मावत्यष्टकम् |
१०३
कुले !' चण्डा चासौ असिधारा च चण्डासिधारा, चञ्चन्ती चासौ चण्डासिधारा च तथा प्रहृतं रिपुकुलं यया सा चञ्चच्चण्डासिधारा प्रहतरिपुकुला, तस्याः सम्बोधनं चञ्चच्चण्डासिधाराप्रहतरिपुकुले ! - देदीप्यमानप्रचण्डमण्डलाप्रधारा व्यापादितशत्रसमूहे ! पुनरपि कीदृशे ? 'कुण्डलोद्धृष्टगल्ले ।' कुण्डलाभ्यां उद्घृष्टौ गल्लौ - गण्डौ यस्याः सा, तस्याः सम्बोधनं कुण्डलोद घृष्टगल्ले ! - कर्णवेष्टको घृष्यमाणगण्डस्थले ! । पुनरपि कीदृशे ? श्र श्री श्रूं श्र स्मरन्ती' श्रा च श्री च च श्रौ च तानि स्मरन्ती - ध्यायन्ती । एतेषां पञ्चाक्षराणां यन्त्रं दर्शयन्नाह -
C
v
कमलवयूँ नामगर्भितस्य बाह्ये लमलवयूँ वेष्टयम्, बाह्ये षोडश स्वरान् लिखेत् बहिः अष्टदलेषु क च छ ज ढ र भ सम्लवर्यू पिण्डाक्षराणि दातव्यानि । बहिरष्टदलेषु ब्रह्माणी, कुमारी, इन्द्राणी, माहेश्वरी, वा-राही, वैष्णवी, चामुण्डा, गान्धारी । ॐकारपूर्व मन्त्रमालिख्य तदबाह्ये समलवर्यू हा हँ हा आ क्रो क्लीदाँ हाँ पद्मावती श्री श्री श्रीँ श्रीँ श्रः
हुं फट्
स्वाहा ।
एषा विद्या अष्टोत्तरसहस्रप्रमाणं करजापेन क्रियमाणेन दश दिनपर्यन्ते सर्वकार्याणि सिध्यन्ति । पुनरपि कीदृशे ? 'मदगजगमने ! ' मदेनोपलक्षितो गजो मदगजः तद्वद् गमनं यस्याः सा तस्याः सम्बोधनं मदगजगमने ! ॥
,
साम्प्रतमुपसंहरन्नाह
दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यं लक्ष्मीसोभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलनाम् । पूज्यं कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात्
देवी पद्मावतीतः प्रहसितवदना या स्तुता दानवेन्द्रैः ||
जनयति — उत्पादयति । कासौ कर्त्री ? इयं देवी पद्मावती । कीदृशा ? 'प्रहसितवदना' प्रहृष्टानना । कस्मात् ! 'पार्श्वनाथप्रसादात् ' । या स्तुता ।