________________
१०२
जैनस्तोत्रसन्दोहे | [ श्रीपार्श्वदेवगणि
काश्यपात्रे दर्भाग्रेण यन्त्रमालिखेत् । यथा श्वेतपुष्यैरष्टोत्तरशतप्रमाणं जापः क्रियतेऽनेन परविद्या - मन्त्र - यन्त्र - रक्षा छेदनं करोति ।
अधुना दार्वोक्तव्यम् (?) | कंसपात्रेषु सुगन्धद्रव्यैः हुंकारं नामगर्भितस्य बाह्ये षोडशस्वरावेष्टितस्य वाह्ये ॐकारं वेष्टय बहिः ॐ कलिकुण्डस्वाहा लिखेत् । तस्यैव यन्त्रस्य श्वेतपुष्पैरष्टोत्तरसहस्त्रप्रमाणैरक्षतैर्ब लिधूपदीपप्रभृतिभिः गृहीतस्य पूर्वोक्तकंसपात्रं पानीयेन प्रक्षालयेत् तत् पानीयं च भूतादिगृहीतं रोगाक्रान्तं चुलुकत्रिकं पाययेत । सर्वग्रहरोगनिर्मुक्तो भवित । इदानीं परविद्याच्छेदानन्तरं चतुःप्रकारं देवकुलमाह —
प्रातर्बालार्करश्मिच्छुरितघनमहासान्द्र सिन्दूरधूलीसन्ध्यारागारुणाङ्गी त्रिदशवरवधूवन्द्य पादारविन्दे ! | चञ्चञ्च्चण्डासिधाराप्रहतरिपुकुले ! कुण्डलोदघृष्टगले ! श्री श्री ॐ श्री स्मरन्ती मदगजगमने ! रक्ष मां देवि ! पद्मे ! || - पालय । देवि ! पद्मावति ! | कम् ? माम् । कीदृशे ?
-
रक्ष
• प्रातबलार्क रश्मिच्छुरितघन महासान्द्र सिन्दूरधूलीसन्ध्यारागारुणाङ्गी ' प्रातः- - प्रभाते बालो - नवोद्गतो यः अर्कस्तस्य रश्मयः - किरणाः तेषां छुरितं प्रातर्बालार्क रश्मिच्छुरितम्, घनो बहुः, महासान्द्रो निबिडो यः सिन्दूरस्तस्य - धूली घनमहासान्द्र सिन्दुरधूली, सन्ध्याया रागः सन्ध्यारागः प्रातर्वालार्क रश्मयश्च घनमहासान्द्रसिन्दूरधूली च सन्ध्यारागश्च ते प्रातर्बालार्क रश्मिच्छुरितघनमहासान्द्रसिन्दूरधूली सन्ध्यारागाः तद्वत् अरुणं अङ्गं यस्याः सा प्रातबलार्करश्मिच्छुरितघन महासान्द्रसिन्दूरधूलीसिन्ध्यारागारुणाङ्गी । पुनरपि कीदृशे ? ' त्रिदशवरवधूवन्द्यपादारविन्दे ? वराच वराश्च ता वध्दश्च वरवध्वः, त्रिदशानां वरवध्वः त्रिदशवरवध्वः ताभिः अभिवन्द्ये पादारविन्दे यस्याः सा तस्याः सम्बोधनं त्रिदशवरवधूवन्द्यपादारविन्दे !नमस्यमानचरणपङ्केरुहे ! । पुनरपि कीदृशे ? ' चञ्चञ्चण्डासिधाराप्रहतरिपु
-अमरवराङ्गना
-