________________
१००
जैनस्तोत्रसन्होहे। [श्रीपार्श्वदेवगणि
एतदेव बीजं, हा ह्रीं ह्वः पक्षिबीज तैः ह्वाँ ह्रीं हः पक्षिबोजैः ।
अस्य पदस्योपलक्षणत्वाच्चक्रं सूचयति । तद्यथा--
ल बहुः पाक्षिनामगर्भितस्य वेष्ट्यम् , वहिः षोडशदलमध्ये अकारादिक्षकारपर्यन्तानि संलिख्य बहिः ठकारवेष्ट्यम् , बहिर्वादशदलेषु ह हा हि ही हु हू हे है हो हो हं हः, बहिर्हकारद्वयं संपुटस्थम् । बहिः झी श्वी हंसः वेष्टयेत् । पुनस्तद्बाह्य एकारद्वयं सम्पुटस्थम् । पुनर्बाह्ये मायाबीजं त्रिगुणं वेष्ट्यम् । मन्त्रमिदम् । एतद् वक्ष्यमाणयन्त्रद्वयम् पूर्वोतस्यास्यैव यन्त्रस्य । तद्यथा
जो खा गा घाँ चाँ छौं ह्रीं क्ली नमः। गरुडध्वजो नाम मन्त्रः। करजापसहस्रेण सिद्धिर्भवति।
क्षिप ॐ स्वाहा। नीरमभिमन्त्रयेत् २१ वारं, पश्चात् तत् पातव्यम् , अजीर्णविषं नाशयति ।
ह हा हि ही हु हू हे है हो हो हं हः । अनेन मन्त्रेण उदकमभिमन्त्र्य श्रोत्राणि ताडयेत् । अभिषिञ्चयेत् निर्विषो भवति ।
वहः, पश्विः स्वी, हंसमन्त्रमाराधयेत् श्वेताक्षतः श्वेतपुष्पैर्वा श्रीखण्डादिभिः सुगन्धद्रव्यैः शरावसम्पुटे संलिख्य शान्ति-तुष्टि-पुष्टिर्भवति । एतज्जलं पूर्णे घटे क्षिपेत् शीतज्वरं दाघज्वरं नाशयति । ग्रहपीडां निवारयति। सर्वदोषान् प्रभवति । द्रष्टप्रत्ययमिदम् । • पुनरपि कीदृशे ? 'प्रक्षरत्क्षीरगौरे !' प्रक्षरच्च तत् क्षीरं च तद्वत् गौरा तस्याः सम्बोधनं प्रक्षरत्क्षीरगौरे! प्रक्षरद्दुग्धपाण्डुरे ! ।
ॐकारैर्विमुक्तिकारैः सरहंसः अमृतहंसः । ॐ कोपं वं झं हंसः ठः स्वाहा । सर्वविषोञ्जनमन्त्रः। पुनरपि कीदृशे ? 'व्यालव्याबद्धकूटे !' दन्दशकबद्धाभ्रेडके !। ॐ कुरु २ कुलेण उपरि मेरु तलि बिंब उपड्डु मंत्रु गरुडाहि