________________
रचितवृत्तियुतम् ]
पद्मावत्यष्टकम् ।
लीलाव्यालोलनीलोत्पलदलनयने ! प्रज्वलद्वाडवाग्नित्रुटयज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदग्रवज्राग्रहस्ते ! । हा ही हूँ हाँ हरन्ती हरहरहरहुंकारभोमैकनादे ! पद्मे ! पद्मासनस्थे ! अपनय दुरितं देवि ! देवेन्द्रवन्धे !॥६॥
व्यपनय-स्फेटय, किं तत् ? 'दुरितं ' विघ्नम् । कीदृशे ? 'लीलाव्यालोलनीलोत्पलदलनयने !' लीलया व्यालोल लीलाव्यालोलम् ,, नीलोसलस्य दलं नीलोत्पलदलम् , लीलाव्यालोलं च तत् नीलोत्पलदलं च लीलान्यालोलनीलोत्पलदलं तत्सदृशे नयने-नेत्रे यस्याः सा, तस्याः सम्बोधनं लीलाव्यालोलनीलोत्पलदलनयने! क्रीडाशोभमानेन्दीवरनयने ! । पुनः कीदृशे ? 'प्रज्वलद्वाडवाग्नित्रुटयज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदप्रवज्राग्रहस्ते !' वाडवस्य अग्निः वाडवामिः प्रज्वलंश्वासौ वाडवाग्निश्च प्रज्वलद्वाडवाग्निः त्रुटयन्ती चासौ ज्वाला च त्रुव्यज्ज्वाला, प्रज्वलद्वाडवाग्नेस्त्रुट्यज्ज्वाला प्रज्वलद्वाडवाग्नित्रुव्यज्ज्वाला, तस्याः स्फुलिङ्गाः तेषां स्फुरन्तश्च च अरुणकणाश्च तैरुदग्रं-प्रचण्डं यद् वज्रं तदग्रं हस्तेयस्याः सा प्रज्वलद्वाडवाग्नित्रुट्यज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदग्रवज्राग्रहस्ता, तस्याः सम्बोधनं प्रज्वलद्वाडवाग्नित्रुट्यज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदग्रवज्राग्रहस्ते ! जाज्वल्यमानवाडवज्वलनज्वालाकलापसमानशतकोटिविभूषितहस्ताने ! । पुनरपि कीदृशे ?
हरन्ती हरहरहरहुंकारभीमैकनादे ! । ' हाँ च ह्रौ च ह्रौ च हरन्ती च हरहर हरहुंकारं च ह्रां ह्री हँ हौ हरन्ती हरहरहरहुंकाराः तैः भीमो-भीषणं एक:-अद्वितीयो नादो यस्याः सा, सम्बोधन हाँ० । सर्वाण्येतान्यक्षराणि मालामन्त्रयन्त्राणि सूचयन्ति । तद्यथा-ॐ नमो भगवति ! अवलोकितपद्मिनि ! हाँ हँ ह्री हँ ह्रः वराङ्गिनि ! चिन्तितपदार्थसाधिनि ! दुष्टलोकोच्चाटिनि ! सर्वभूतवशङ्करी आँ को ह्री पद्मावति ! स्वाहा । ____ॐ नमो भगवति ! पद्मावति ! सप्तफणाविभूषिता चतुर्दशदंष्ट्राकराला