________________
रचितवृत्तियुतम्] पद्मावत्यष्टकम् । ' भृङ्गी काली कराली परिजनसहिते ! चण्डि ! चामुण्डि ! नित्ये ! क्षा क्षी क्षौं क्षणार्द्धक्षतरिपुनिवहे ! ही महामन्त्रवश्ये ! । ॐ ही हो , भङ्गसङ्गभ्रकुटिपुटतटत्रासितोदामदैत्ये !
नाँ स्रो सँ सौ प्रचण्डे! स्तुतिशतमुखरे! रक्ष मां देवि! पो४॥ . रक्ष-पालय ! देवि ! प !-पद्मावति ! । कम् ? 'माम् ' स्तुतिकर्तारम्, कीदृशे ? 'स्तुतिशतमुखरे!' स्तुतयः-श्रीपार्श्वनाथसम्बन्धिन्यः तासां शतानि तैर्मुखरा-वाचाटा, तस्याः सम्बोधनं स्तुतिशतमुखरे ! कीदृशे ? 'भृङ्गीकालीकरालीपरिजनसहिते!' भृङ्गी च काली च करालो च भृङ्गीकालीकराली , भृङ्गीकालीकरालीलक्षणः परिजनः तेन सहिता, तस्याः सम्बोधन भृङ्गीकालीकरालीपरिजनसहिते! । पुनः कीदृशे ? ' चण्डिचामुण्डिनित्ये !' चण्डिश्च चामुण्डिश्च चण्डिचामुण्डी, चण्डिचामुण्डिभ्यां नित्ये ! -युक्ते ! चण्डिचामुण्डियुक्ते ! लोकप्रतीते ! ' पुनः कीदृशे ? क्षा चक्षी च च क्षौ च साक्षीक्षक्षौ एतैरक्षरैः, क्षणस्या क्षणार्द्ध तेन क्षणाधैन क्षता-हता रिपूणां निवहाः-समूहा यथा सा तस्याः सम्बोधनं क्षा क्षी हूँ क्षौ क्षणार्द्धक्षतरिपुनिवहे !। पुनः कीदृशे ? ह्रीमहामन्त्रवश्ये !' ह्रीलक्षणो यो महामन्त्रस्तस्माद् वश्या ह्रीमहामन्त्रवश्या, तस्याः सम्बोधनं ह्रीमहामन्त्रवश्ये! नरनारीप्रभृतयः । पुनरपि कीदृशे ? ॐ ह्रीं ह्री अभङ्गसङ्गभ्रकुटिपुटतटत्रासितोदामदैत्ये!।' ॐ धूं धूं धूं लक्षणो भ्रूभङ्गः, ॐ ही भ्रूभङ्गस्य सङ्गः, ॐ ह्रीं भङ्गसङ्ग !, ॐ हाँभङ्गसङ्गस्य भृकुटिः ॐ ही घंभङ्गसङ्गभृकुटिः, ॐ ह्रीभङ्गसङ्गभृकुटेः पुटतटः ॐ ह्री भृभङ्गसङ्गभृकुटिपुटतटः, त्रासिता उद्दामा दैत्या यया सा, तस्याः सम्बोधनं ॐ ह्री श्रृंभङ्गसअभृकुटिपुटतटत्रासितोद्दामदैत्ये ! -विकटकटाक्षोच्चाटितदुष्टासुरे ! । पुनरपि
१ झा झी , झौं इति पाठान्तरे।