________________
८८
जैनस्तोत्रसन्दोहे। [श्रीपार्श्वदेवगणिपत्रम् । कस्य ? पार्श्वभर्तुः। पार्थाभिधानयक्षस्य । पुनरपि के कर्मतापन्नम् ? 'कूजत्कोदण्डकाण्डोड्डमरविधुरितकूरघोरोपसर्गम्' कोदण्डश्च काण्डश्व कोदण्डकाण्डौ, कूजन्तौ कोदण्डकाण्डौ कूजत्कोदण्डकाण्डौ, तयोरुइमरः कूजत्कोदण्डकाण्डोड्डमरः, क्रूरश्च घोरश्च करघोरौ, क्रूरघोरौ उपसर्गों यस्यासौ करघोरोपसर्गः, कूजत्कोदण्ड काण्डोडमरेण विधुरितः करघोरोपसर्गः, कूजत्कोदण्डकाण्डोडमरविधुरितकरघोरोपसर्गः, तम् कूजत्कोदण्डकाण्डोड्डमरविधुरितकरघोरोपसर्गम् । गदाधनुर्बाणोडमरविधुरितदुष्टरौद्रविधनम् । न केवलं, बिभ्राणा किं तत् ? 'वज्रातपत्रम्' । कीदृशम् ? 'दिव्यम्' प्रधानम् । तथा बिभ्राणा, किं तत् ? भास्वद्वैडूर्यदण्डम् ' भास्वान्प्रभापुजसहितो वैडूर्यदण्डो येनासौ भास्वद्वैडूर्यदण्डः, तं भास्वद्वैडूर्यदण्डम् देदिप्यमानरत्नविशेषमेतलगुडम् । कीदृशम् ? प्रगुणमणिरणत्किङ्किणीवाणरम्यम्' प्रगुणाश्च ते मणयश्च प्रगुणमणयः, रणन्त्यश्च ताः किङ्किण्यश्च रणकिङ्किण्यः, प्रगुणमणीनां रणत्किङ्किण्यः, प्रगुणमणिरणत्किङ्किण्यः, प्रगुणमणिरणत्किङ्किणीनां वाणः प्रगुणमणिरणत्किङ्किणीकाणः, तेन रम्यम् प्रगुणमणिरणत्किङ्किणीवाणरम्यम् , विशिष्टरत्ननिर्मितक्षुद्रघण्टिकारावरमणीयम् । कीदृशस्य पार्श्वभर्तुः ? 'मदनविजयिनः' कामजयिनः ।
भावनामाह-ही धनु ६ महाधनुं सर्वधनुं देवि ! पद्मावति ! सर्वेषां दुष्टचौराणां आयुधं बन्ध २ दृष्टिं बन्ध २ मुखस्तम्भं कुरु २ स्वाहा । एषा विद्या मार्गभये सप्तवारानभिमन्न्य पन्थे धनुरालिखेत् चोरभयं न भवति ॥ - ॐ नमो धरणेन्द्राय खड्गविद्याधराय चल २ खगं गृह २ स्वाहा । अष्टोत्तरसहस्रं करजापो पुष्पाणि वा दिनत्रयं सिद्धिः । खड्गस्तम्भनमन्त्रः ।
ॐ कुबेर ! अमुकं चोरं गृह्ण २ स्थापितं दर्शय आगच्छ स्वाहा। भस्मना कटोरकं पूयित्वा पूजयेत् । चोरं गृह्णापयति । पूर्वसेवा दशसहस्राणि जपेत् । ततः सिद्धो भवति ॥
इदानीमनेकप्रकारं शस्त्रं प्रतिपाद्य अधुना देवकुलरक्षास्तम्भनमोहनोचाटनविद्वेषणबशीकरणभूतशाकिनीदेवीनामभिधानानि मन्त्राणि विद्याश्च सप्रपञ्चमाह
पचात ।