________________
(३२)
जनस्तोत्रसन्दोहे स्तवनम् (गेयमयं ) सङ्गीतसमयसारः, सङ्गीतरत्नाकरश्चेत्यादिः। अपरश्च
मलधारिहेमचन्द्रसरिशिष्य-सङग्रहणीसूत्ररचयितृचन्द्रमूरिप्रसङ्गे दे. ला. पु. फं. द्वारामुद्रितपुरतके लिखितं चोपाद्घातलेखकेन" त्रिनवत्युत्तरैकादशशते (११९३) विक्रमसंवत्सरे यदैते भृगुकच्छ (भरुच) नगरं विभूषयाम्बभूवुः तदा नगरश्रेष्ठी धवलशाहः ससङ्घस्तान् मुनिसुव्रतस्वामिनां पवित्रं चरित्रं रचयितुं प्रार्थयाञ्चक्रे । तत एते तत् स्वीकृत्याऽऽशापल्ल्यामागत्य च श्रीमालकुलभूषणस्य नागिलनाम्नः श्रावकस्योपाश्रयमाश्रित्य तं ग्रन्थं विरचयाञ्चक्रुः । तस्य प्रन्थस्य प्रथमं पुस्तकं पाश्चदेवगणिना लिखितमिति श्रयते। विचारणीयमेतदितिहासविद्भिः ।
(१५) श्रीचन्द्राचार्य: एतदभिधानभाजोऽनेके समजायन्त सूरिवराः, तथाहि
(१) जेसलमेरुभाण्डागारीयग्रन्थानां सूचिपत्र (पृ. १५) निर्दिष्ट सं. १२१६ वर्षे प्राकृतनेमिचरित्रविरचयितुः श्रीहरिभद्रसरेगुरुहद्गच्छीयश्रीजिनचन्द्रमरिशिष्यः ।।
३ मुदापितोऽयं त्रावणकोरनरपतिना त्रिवेन्द्र संस्कृत सीरीझ संस्थायाम् महोपाध्याय टी. गणपतिशास्त्रिद्वारा । अस्य चादावेव द्वितीये पद्ये भोजनृपतेः सोमेश्वरमन्त्रिणश्चोल्लेखो दृश्यते । भोजराज्ञः इ स. ११५३ रूपः, सोमेश्वरस्य इ. स. ११८३ रूपश्च सत्ताकाल: प्रतीत एवं ।
४ डा. हेल्मुतकृत जैनधर्म (ainism) पुस्तकस्य पृ. ११५ तमे दर्शिताविमौ कृतितयाऽस्य । अस्ति सङ्गीतरत्नाकर इत्युपनाम चास्य सूरेः ।