________________
wwwmonam
(२८)
जैनस्तोत्रसन्दोहे
(१२) श्रीहरिभद्रमूरिः। १ एतन्नामभृतस्त्रयः समजायन्त सूरिवराः तेषु प्रथमश्चतुर्दशशतप्रकरणकारो याकिनीमहत्तराधर्मपुत्रो विदित एव ।
२ वटगच्छीयचन्द्रमूरिशिभ्यः कुमारपालराज्येऽगहिल्लपुरेपत्तने वि. सं. १२१६ वर्षे ऽयसहस्रश्लोकपरिमितप्राकृतापभ्रंशभाषाविभूषितश्रीनेमिनाथचरित्रप्रणेता । असौ स्वस्य चतुर्विशतिजिनचरित्ररचयितृत्वं प्रतिपादयति स्मान्यत्र तन्मध्याचन्द्रप्रमचरित्रं, मल्लिनाथचरित्रं चोपलम्यते पत्तनादिभाण्डागारेषु ।।
३ बृहद्गच्छीयमानदेवमूरिशिष्यजिनदेवोपाध्यायशिष्यवर्योऽसौ सिद्धराजराज्ये विद्यमानतां बिभर्ति स्म ।सं.११७२ बन्धस्वामित्वषडशीत्यादिकर्मग्रन्थवृत्तिः, सं. ११८५ प्रशमरतिवृत्तिः, संग्रहणीवृत्तिः, मुनिपतिचरित-श्रेयांसचरिते चेत्याद्यनेन निरमामि । ___एतत्सूरिवर्यत्रयमध्यात् अत्रैव ( पृष्ठ १६) मुद्रितं साधारगजिनस्तोत्रं कस्य कृतिरिति न निश्चयः, परन्तु विरहाकविरहान्नेयं याकिनीमहत्तरासूनोः प्रगीतिः ।
(१३) श्रीधर्मसूरिः । जैनग्रन्थावल्यानुसारेण संवत् १२४८ वर्षे आत्महितकुलक(गा. ३२ ) आत्मानुशासनकुलक ( गा.५६ ) आत्मानुशास्तिकुलक ( गा. २५) उपदेशकुलक ( गा. २६) गुराधनकुलक (गा.
) जिनेन्द्रविज्ञप्तिकुलक (गा. ३०) धर्माचार्यबहुमानकुलक. ( गा. ३४) परमसुखद्वात्रिंशिकाकुलक ( गा. ३२) पर्यन्ताराधनाकुलक ( गा. १६) मनोनिग्रहभावनाकुलक (गा. ४४) श्रावक