________________
(४०६)
जैनस्तोत्रसन्दोहे।
JANA
चिदानंदनियंदवंदारुशक्रस्फुरन्मौलिमंदारमालारजोभिः । पिशङ्गौ भृशं गौरकीर्तेस्तवाङ्ग्री गळल्लोभशोभाभिराम ! स्मरामः ॥ बहुधात्र सुधारुचिरैर्वचनैर्भवता भवतापभरः शमितः। अमितप्रसरद्गुणरत्ननिधे ! शरणं चरणौ तव तेन भजे ॥१०७।। इति प्रथितविक्रमः क्रमनमन्मरुन्मण्डली
किरीटमणिदर्पणप्रतिफलन्मुखेन्दुः शुभः । जगज्जनसमीहितप्रणयनैककल्पद्रुमो
यशोविजयसम्पदं प्रवितनोतु वामाङ्गजः ॥ १०८ ॥
Um
PLErila
GPPUR
ANILIHITHERINE
HOTOC00000
Promh4M
GOOT