________________
वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम् । (४०५)
सहे नान्यं धर्म नृपसदसि जल्पव्रजमहे __महेश ! त्वं तस्मान्मयि कुरु दयां शश्वदुदयाम् ॥९७॥ भयं सर्वं याति क्षयमुदयति श्रीः प्रतिदिनं
विलीयते रोगा लसति शुभयोगादपि सुखम् । महाविद्यामूलं सततमनुकूलं त्रिभुवना
भिराम ! त्वन्नाम स्मरणपदवीमृच्छति यदि ॥९८ ॥ नमदमर्त्यकिरीटमणिप्रभापटलपाटलपादनखत्विषे । गलितदोषवचोधुतपाप्मने शुभवते भवते भगवन् ! नमः ॥९९॥ सुरतरुः फलितो मम साम्प्रतं विगलतोऽपि च दुष्कृतसञ्चयः । सुरमणी रमणीयभवन्नुतेः करतले रतलेपहरालुठत् ॥१०॥ दिशति कार्मणमीश ! शिवश्रियः प्रियसमागमहेतुरनुत्तरः । विजयते विहितोत्कटसङ्कटव्युपरमा परमा तव संस्तुतिः ॥१०॥ तव मतं यदि लब्धमिदं मया किमपरं भगवन्नवशिष्यते । सुरमणौ करशालिनि किं धनं स्थितमुदीतमुदीश ! पराङ्मुखम् ॥ सर्पत्कंदर्पसर्पस्मयमथनमहामंत्रकल्पेऽवकल्पे
प्रत्यक्षे कल्पवृक्षे परमशुभनिधौ सत्तमोहे तमोहे । निर्वाणानंदकंदे त्वयि भुवनरवौ पावना भावना भा
ध्वस्तध्वांते समग्रा भवतु भवतुदे सङ्गता मे गतामे ॥१०३॥ प्रसीद सद्यो भगवन् ! अवयं हरस्व पुण्यानि पुषाण भर्तः ।। स्मर्तव्यतामेति न कश्चिदन्यस्त्वमेव मे देव ! निषेवणीयः ॥१०४॥ हरिदंतिसरीसपानलप्रधनाम्भोनिधिबंधरोगजाः । न भियः प्रसरंति देहिनां तव नामस्मरणं प्रकुर्वताम् ॥ १०५॥