SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ( ४०४ ) जैनस्तोत्रसन्दोहे | [ श्रीयशोविजय किमावर्तः श्वभ्रं गिरिशगिरिगौरीशशशभृत् त्रिपिण्डी डिण्डीरतिमुपगता नास्ति किमिह ॥ ६६ ॥ प्रयोगेऽस्मिन् विश्वे प्रसरति भवत्कीर्तिरनिशं रसैस्तुङ्गा गङ्गा गिरिशगिरिशीतांशुविशदा । परेषां निःशेषा जिनवर ! कुकीर्तिश्च यमुना घनाम्भोदश्यामा ननु महसहस्रापतदिह ॥ ६७ ॥' .... **** .... कथा का ते ख्यातेः कृतविपुलसातेश्वर ! भवत् - प्रभावादन्येषामपि भवति नो कूटघटना । न कः प्राणी वाणीरसहृतजगन्मानसतृषं श्रयेत त्वां नाथं दलितघनमायामृषमतः भवान् चक्री कर्मव्रजविकटवैताढ्यघटितं कपाटं ग्रन्ध्याख्यं सुपरिणतिदण्डाद् विघटयन् । प्रतीर्योद्यद्वीर्यो जयति सकलासद् ग्रहजलं प्रपूर्णेच्छम्लेच्छव्रजसदृशमिथ्यात्व विजयात् मता देवाः सुभ्रू स्तनजघनसेवासु रसिका महादम्भारम्भाः प्रकृतिपिशुनास्तेऽपि गुरवः । दयाहीनो धर्मः श्रुतिविदितपीनोदय इति प्रवृद्धं मिध्यात्वं सुसमयघर हैर्दलितवान् परं देव ! त्वत्तो न खलु गणयामि क्षणमपि त्वदादिष्टादिष्टाद् गुरुमपि पथः प्रच्युतमिह । १ इतः परं त्रुटितमस्ति त्रिनवति लोकपर्यन्तम् । ॥ ९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy