________________
वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम् । ( ४०३ )
भृशं फेनायन्ते हतमदनसेना गुणगणाः तवोच्चैः कैलाशयतिमदभिदायां सुनिपुणाः गुणास्ते ते हंसात्रजगदवतंसायित ! चिरं भजंते ये ध्यानामृतरसभृतं मानसमदः । भिदां तन्वन्त्येते बत परयशोमौक्तिकगणैः
कृताहाराः स्फारा न किमु पयसोर्दोषगुणयोः ॥ ५७ ॥
१
....
....
....
....
.... .... ...
विधिः कारं कारं गणयति नु रेखास्तव गुणान् सुधाबिन्दोरिन्दोर्वियति विततास्तारकमिषाः । प्रतिश्यामायामान् व्रजति न विलासोऽस्य निधनं ततो र चन्द्रे पुनरपि निघत्तेऽमृतभरम् महो राहोर्नाहोम लिनम लिपङ्क्तिश्व धवला बलाकामाकारा द्विकवृकपिकानामनुसृताः । न शैलाः कैलाशा इव किमभवन्नञ्जनमुखा भृशं विश्वं विश्वं शिसयति भवत्कीर्तिनिकरे यशोभिस्तेऽशोभि त्रिजगदतिशुभ्रैर्भृशमित
-
॥५६॥
॥ ६३ ॥
॥ ६४ ॥
स्तिथिः सा का राका तिथिरिह न या हन्त ! भवति । कुहूर्नाम्नैवातः पिकवदनमातत्यशरणं
श्रिता साक्षादेषा परवदनवेषा विलसति यशोदुग्धाम्भोधौ भवति तव मीनाकृति नभो ध्रुवं स्फारास्तारा जलकणतुलामीश ! दुधते । १ अतः परं विशीर्णानि पद्यानि पञ्च ।
॥ ६५ ॥