________________
(४०२)
जैनस्तोत्रसन्दोहे।
[श्रीयशोविजय
भवद्ध्यानस्नानप्रकृतिसुभगं मे सुहृदयं
पवित्रा चित्रा मे तव गरिमनुत्या भवतु गीः । प्रणामैः सच्छायस्तव भवतु कायश्च सततं
त्वदेकस्वामित्वं समुदितविवेकं विजयताम् ॥५१ ॥ अहीनत्वख्यातिं वहसि महसा पीनसुषमां
क्षमां बिभ्रद् भूयः फणमणिवृणिध्वस्ततिमिरः । तथाप्येतच्चित्रं क्षणमपि न कृ (तृ) ष्णाश्रयणकृत्
न वाधो निर्बाधो वसतिमितसिद्भिर्वितनुषे ॥ ५२ ॥ गलत्पोषा दोषास्त्वयि गुणगगाः क्लृप्तशरणा
गतक्षोभा शोभा हृदयमपि लोभादुपरतन् । त्विषां पात्रं गात्रं वदनमतिलावण्यसदनं
तवाक्षुद्रा मुद्रामृतरसकिरः पर्षदि गिरः ॥ ५३ ॥ विना बाणैर्विश्वं जितमिह गुणैरेव भवता
विना रागं चित्तं भुवनभविनां रञ्जितमपि । विना मोहं मुग्धः श्रितबुधविनाङ्गीकृतशिवो
विरूपाक्षाकारं विगलितविकारं विजयसे ॥ ५४ ॥ गुणास्ते स्पर्धन्ते प्रसमरशरच्चंद्रनिकरान्
कथं व्यक्तं रक्तं भवति हृदयं तैर्भवभृताम् । कठोरं चेतस्ते यदपि कुलिशाद् घोरनियमे ___ कथं विश्वे विश्वेश्वरवर ! कृपाकोमलमदः ॥ ५५॥ मुनीनां ध्यानाब्धौ तब मुखविधोर्दर्शनरसात्
तरङ्गैरिङ्गद्भिः प्रशमरससंज्ञैः प्रसृमरैः ।