________________
4
.
वाचकविरचितम् ] *श्रीगोडीपार्श्वजिनस्तवनम् । (४०१ )
न किं ते भाषन्ते विषतरुषु कल्पद्रुतुलनां
प्रलापाः पापानां सपदि मदिरापानजनिताः ॥ ४५ ॥ निशाभ्यः प्रत्यूषे विफलबदरीभ्यः सुरतरौ
विषेभ्यः पीयूषे चुलुकसलिलेभ्यो जलनिधौ । गिरिभ्यः स्वर्णाद्रौ करिणि हरिणेभ्यः खलु यथा __ तथान्येभ्यो नाथ ! त्वयि गुणसमृद्धरतिशयः ॥४६॥ मुख ते निस्तन्द्रं जितसकलचंद्रं विजयते __ कृपापात्रे नेत्रे हसितकजपत्रे विलसतः । त्वदको वामाक्षीपरिचयकलङ्कोज्झित इति
प्रभो ! मूर्तिस्फूर्तिस्तव शमरसोल्लासजननी ॥४७॥ तरी संसाराब्धेर्भुवनभविनां निर्वृतिकरी ___ सदा सद्यः प्रोद्यत्सुकृतशतपीयूषलहरी । जरीज़म्भड्डिम्भत्रिदशमणिकांतिस्मयहरी
वरीवर्ति स्फूर्तिर्गतभव ! भवन्मूर्तिनिलया ॥४८॥ इमां मूर्तिस्फूर्ति तव जिन ! समुद्वीक्ष्य सुदृशां
सुधाभिः स्वच्छंदं स्नपितमिव वृंदं ननु दृशाम्। कुदृष्टीनां दृष्टिर्भवति विषदिग्धेव किमतो
विना घूकं प्रीतिर्जगति निखिले किं न तरणे: ? ॥१९॥ इमां मूर्ति स्फूर्ति तब जिन ! गतापायपटलं
नृणां द्रष्टुं स्पष्टं सततमनिमेषत्वमुचितम् । न देवत्वे ज्यायो विषयकलुषं केवलमदो निमेषं निःशेषं विफलयतु वा ध्यानशुभदृक् ॥ ५० ॥