SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ (४००) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयस्फुरत्कैवल्यश्रीपरिणयनदिव्योत्सवमिव त्रिलोकीलुण्टाकस्मरजयरमाताण्डवमिव । सदा धामस्थामप्रसरमिव शंसन्नतितरां तवाकाशेऽकस्मात् स्फुरति पुरतो ' दुन्दुभिरवः ॥४०॥ परं चिन्हें विश्वत्रितयजयदिव्यव्यवसिते: कृतव्यापत्तापत्रयविलयसौभाग्यनिलयः । धृतं हस्तैः शस्तैस्त्रिदशपतिभिः प्रेमतरलै भवन्मौलौ 'छत्रत्रय' मतितरां भाति भगवन् ! ॥४१॥ विलासो नारीणामिह खलु पराभूतिरुदिता प्रसिद्धा चान्येषां तव च परमोहव्यवसितिः । इदं सर्वं साम्यं तदपि तव तै व तुलनां __सहर्ष भाषन्ते परमकवयः कौतुकमदः ॥४२ ॥ अपारव्यापारव्यसनरसनिर्माणविलय स्थितिक्रीडाव्रीडा न खलु तव विश्वे विलसति । न कोपं नारोपं न मदमदिरोन्मादमनिशं __ न मोहं न द्रोहं कलयसि निषेव्योऽसि जगतः ॥४३॥ भवेद् भूतावेशः परतनुनिवेशः कथमहो! परेषां संक्लेश: स्फुरति हि महामोहवशतः । न चेदेवं देवं यदि चपलयेन्नमरचना विलीना दीनासौ तदिह भुवनेऽधीरिमकथा ॥४४॥ त्वदौपम्यं रम्यं यदि हतधियो! हन्त ! ददते परेषामुल्लेखात् प्रकृतहितदानस्य जगति ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy