________________
वाचकविरचितम्] श्रीगोडीपार्श्वजिनस्तवनम् । (३९९ )
समस्तोदस्तोद्यडुरितपटलस्य प्रतिभुवः
शिवश्रीलाभस्य प्रथितगुणरत्नवजभुवः ॥३४॥ जगद्भानोर्जानोः सममसमसौरभ्यकलितं
पुरः के वा देवास्तव न दधते 'पुष्पनिकरम् । प्रसपत्कन्दर्पस्मयमथनमुक्ताश्रव ! भवत्
प्रभावादस्यापि व्रजति नियतं बन्धनमधः गलद्रोधं बोधं निजनिजगिरा श्रोतृनिकरा
लभन्ते हन्तेह त्वदुदित गिरा' नात्तभिदया। इमां ते योगद्धिं न खलु कुशलाः स्पर्द्धितुमहो !
परे धाम कामद् गगनमिव सूर्यस्य शलभाः ॥३६॥ मुखेन्दुज्योत्स्नेव स्फुटतनुलसत्कान्तियमुना___ प्रशंसा हंसाली किमु किमुत पुण्यर्द्धिरखिला ? | स्मितश्रीः किं लक्ष्म्याः किमुत परमध्यानघटना
प्रभो ! त्वन्मौलिस्था विलसति सिता 'चामरततिः' ॥३७॥ न किं देवाः सेवां विदधति 'मृगेन्द्रासन' जुष___ स्तव प्रौढाम्भोदप्रतिमवपुषः पुण्यजनुषः । प्रदेशे स्वर्णादेः क्कचन रुचिरे नन्दनवने
प्रियङ्गोः सङ्गोत्काः किमु न सततं षट्पदगणाः ॥३८॥ अभून्नेन्दुर्भूयःप्रभविभुमुखीभूय न सुखी
तमोग्रासोल्लासस्तदिह ननु मय्येव पतितः। इदं मत्वा सत्वात् किमु तव रविौलिमधुना
श्रितो नेतश्चेतःसुखजनन 'भामण्डल' मिषात् ॥ ३९ ॥