________________
(३९८ ) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयजगत्स्वामी चामीकररजतरत्नोपरचितै
विशालैस्त्वं सालैः परमरमणीयद्युतिरसि । तव ब्रूते भूतेः समवसरणक्षमाप्यतिशयं
ध्वजव्याजभ्राजत्सरसरसनादुन्दुभिरवैः ॥ २९ ॥ सभायामायाताः सुरनरतिरश्चां तव गणाः
स्फुटाटोपं कोपं न दधति न पीडामपि मिथः । न भीतिं नानीतिं त्वदतिशयतः केवलमिमे
सकर्णाः कर्णाभ्यां गिरमिह पिबन्ति प्रतिकलम् ॥ ३०॥ गिरः पायं पायं तव गलदपायं किमभवन्
सुधापाने जाने नियतमलसा एव विबुधाः । तदक्षुद्रा मुद्रा सितमहसि पीयूषनिलये
निजायत्ता दत्ता जठरविलुठल्लभममिषतः ॥३१॥ तनीयानप्युच्चैन पटुरशनीया परिभवः . _ पिपासापि कापि स्फुरति न भवद्गीःश्रवणतः । भवेत् साक्षाद् द्राक्षारसरसिकता हन्त ! बहुधा
सुधास्वादः सद्यः किमु समुदयेनाधिवसुधम् ॥ ३२ ॥ ब्रवाणैर्गिर्वाणैर्जिन ! सितकरं कीर्तिनिकरं
तव प्रत्नै रत्नैर्सटिति घटिता धर्मपरिषत् । अमन्दा मन्दारद्रुमकुसुमसौरभ्यसुभगा
न किं चित्ते धत्ते भुवनभविनां मेदुरमुदम् ? ॥३३ ॥ 'अशोक'स्ते श्लोकश्रवणजनितोऽयं जयति किं
शिरो धुन्वन् भूयश्चपलदलदम्भादतिमुदः ।