________________
वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम्। ( ३९७ ) किमाश्चर्य वयं तदिह निहताः किं न रविणा
विनायासं व्यासं रजनिषु गता ध्वान्तनिकराः ॥ २३ ॥ ज्वलत्काष्ठकोडात् फणिपतिसमाकर्षणभवं
यशः कर्षत्युच्चैस्तव परयशःकारणगुणात् । इदं चित्रं काष्ठाद् बहिरपसृताज्जातमहितो
न यत् स्पष्टं काष्ठापसरणरसं हन्त ! वहति ॥ २४ ॥ द्विषत्तापव्यापप्रथनपटुभिर्मोहमथनैः __ प्रतापरीक्रान्तस्तव न कमठः कान्तिमधृत । महोभिः सूरस्य प्रथितरुचिपूरस्य दलित
द्युतिस्तोमः सोमः श्रयति किमु शोभालवमपि ? ॥ २५ ॥ विलासः पद्मानां भवति तमसामप्युपशमः
प्रलीयन्ते दोषा व्रजति भवपङ्कोऽपि विलयम् । प्रकाशः प्रोन्मीलेत् तव जिन ! जगज्जित्वरगुण !
प्रतापानां भानोरिव जगदभिव्याप्तिसमये ॥ २६ ॥ किमु स्पष्टैः कष्टैः किमु परिणतैरासनशतैः
प्रयोगा योगानां नहि भववियोगाय पटवः । त्वदाज्ञा चेदेका शिरसि न विवेकादुपहृता _ विना वीर्य कार्य न भवति नृणां भेषजगणैः ॥२७॥ नराः शीर्षे शेषामिव तव विशेषार्थविदुषः .. शतै राज्ञामाज्ञामिह दधति ये देव ! महिताम् । अविश्रामैस्तेषामहमहमिकायातनृपतिप्रणामैरुद्दामैः समुदयति कीर्तिर्दिशि दिशि ॥२८ ।।