________________
(३९६)
जैनस्तोत्रसन्दोहे। [श्रीयशोविजय
स्रजं भक्त्या जन्तुर्घनसुमनसां सौरभमयीं ___ न यः कण्ठे धत्ते तव भवभयार्तिक्षयकृतः । कथं प्रेत्याभ्येत्य त्रिदशतरुपुष्पस्रजमहो __ शुभायत्तां धत्तां त्रिदशतरुणी तस्य हृदये ? ॥१८ ॥ पिता त्वं बन्धुस्त्वं त्वमिह नयनं त्वं मम गति
स्त्वमेवासि त्राता त्वमसि च नियन्ता नतनृपः। भजे नान्यं त्वत्तो जगति भगवन् ! दैवतधिया
दयस्वातः प्रीतः प्रतिदिनमनन्तस्तुतिसृजम् ॥१९॥ जगज्जैत्रश्चित्रैस्तव गुणगणैर्यो निजमनः
स्थिरीकृत्याकृत्याद् भृशमुपरतो ध्यायति यतिः । इहाप्यस्योदेति प्रशमलसदन्तःकरणिका
समप्रेमस्थेमप्रसरजयिनी मोक्षकणिका ॥२०॥ फणैः पृथ्वी पृथ्वी कथमिह फर्णीद्रः सुमृदुभि
हरिनागा रागात् कथमतिभरक्लान्ततनवः । क्व कूर्मों वा धत्तां निभृततनुरेको जलचरः
पटुधर्मः शर्मप्रभव ! तव तां धर्तुमखिलाम् ॥ २१ ॥ ज्वलन् ज्वालाजालैचलनजनितैर्देव ! भवता
बहिः कृष्टः काष्ठात् कमठहठपूरैः सह दितात् । नमस्कारैः स्फारैर्दलितदुरितः सद्गुणफणी ।
किमद्यापि प्रापि प्रथितयशंसा नेन्द्रपदवीम् ॥ २२ ॥ महारम्भा दम्भाः शठकमठपञ्चाग्निजनिता
स्त्वया दीर्णाः शीर्णाखिलदुरितकौतूहलकृता ।