________________
वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तोत्रम् । ( ३९५ )
प्रसर्पद्दानाम्भःसुभगकरटानां करटिनां
घटा तस्य द्वारि स्फुरति सुभटानामपि न किम् ? ॥ १२ ॥ . महालोभक्षोभव्यसनरसिकं चेतसि यदि
स्फुरेद् वारं वारं कृतभवनिकारं त्वदभिधम् ।
तमोह्रासादासादितततविकासाय मुनये
तदा मायाकाया न खलु निखिला द्रुह्यति निशा ॥ १३ ॥ स्थलीषु प्रभ्रष्टान् शिवपथपथः सङ्घभविनो
विना त्वामन्यः कः पथि नयति दीपानुकृतिभिः । प्रभावादुद्भूतस्तव शुचिरितः कीर्तिनिकरः
करोत्यच्छं स्वेच्छं कलिमलिनमन्हाय भुवनम् ॥ १४ ॥ विलोलैः कल्लोलैर्जवनपवनैर्दुर्दिनशताहतोद्योतैः पोतैर्निकटविकटोद्यज्जलचरैः ।
जनानां भीतानां त्वयि परिणता भक्तिरवना (नौ)
-
जगद्बन्धो ! सिन्धोर्नयति विलयं कष्टमखिलम् ॥ १५ ॥ अटव्यामेकाकी नतनिखिलनाकीश ! पतितो
वृतायां कीनाशैरथि ! (रिव) हरिक रिव्याघ्रनिकरैः 1 जनस्तत्पूतात्मा भवन इव भीतिं न लभते
मनश्चेत् त्वन्नामस्मरणकरणोत्कं वितनुते ॥ १६ ॥ जपन्तस्त्वन्नाम प्रतिदशमि मन्त्राक्षरमयं
दशानामाशानां श्रियमुपलभन्ते कृतधियः । दशाप्याचाम्लैस्तु त्रिदशतरवः सन्निदधते
कृतैः किं वा न स्याद् दशनिरयवासार्तिविलयः ॥ १७ ॥