________________
w
(३९४) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयरिपुर्वा मित्रं वा द्वयमपि समं हन्त ! सुकृतो
ज्झितानां किं ब्रमो जगति गतिरेषास्ति विदिता ॥ ७ ॥ दृशां प्रान्तैः कान्तैर्नहि वितनुषे स्नेहघटनां
प्रसिद्धस्ते हस्ते न खलु कलितोऽनुग्रहविधिः । भवान् दाता चिन्तामणिरिव समाराधनकृता
मिदं मत्वा सत्वा दधति तव धर्मे दृढरतिम् ॥ ८ ॥ स सेवाहेवाकैः श्रित इह परैर्यः शुभकृते
नियन्ता हन्तायं सजति गृहिणी गाढमुरसा । भवेदस्मात् कस्मात् फलमनुचितारम्भरभसा
ल्लतावृद्धिर्न स्याद् दवदहनतो जातु जगति ॥ ९ ॥ प्रदीपं विद्यानां प्रशमभवनं कर्मलवनं
महामोहद्रोहप्रसरदवदाने(ते)न विदितम् । स्फुटानेकोद्देशं शुचिपदनिवेशं जिन ! तवो
पदेशं निःक्लेशं जगदधिप ! सेवे शिवकृते ॥ १०॥ अगण्यैः पुण्यैश्चेत् तव चरणपङ्केरुहरजः
शुचिश्लोका लोकाः शिरसि रसिका देव ! दधते । तदा पृष्ठाकृष्टा धृतधृतिरमीषां कृतधिया
मविश्रान्तं कान्तं त्यजति न निशान्तं जलधिजा ॥११॥ उदारं यस्तारं तव समुदयत्पूषविलस
न्मयूषे प्रत्यूषे जिनप ! जपति स्तोत्रमनिशम् । १ मुद्रणपुस्तिकाया विनिष्टे पत्रे विशीर्ण पद्यपञ्चकम् ॥