SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीशमीनपार्श्वस्तोत्रम् | कल्पद्रुमोऽय फलितो लेभे चिन्तामणिर्मया । प्राप्तः कामघटः सद्यो यज्जातं तव दर्शनम् ॥२॥ क्षीयते सकलं पापं दर्शनेन जिनेश ! ते । तृण्या प्रलीयते किं न ज्वलितेन हविर्भुजा ? ॥३॥ मूर्त्तिः स्फूर्तिमती भाति प्रत्यक्षा तव कामधुक् । सम्पूरयन्ती भविनां सर्व चेतः समीहितम् ॥ ४ ॥ लोचने लोचने ह्येते ये त्वन्मूर्तिविलोकिनी । यद् ध्यायति त्वां सततं मानसं मानसं च तत् ॥५॥ सती वाणी च सा वाणी या त्वन्नुतिविधायिनी । येन प्रणौ त्वत्पादौ मौलिमलिः स एव हि ॥ ६ ॥ मुखस्फूर्ति तवोद्वीक्ष्य ज्योस्नामिव विसृत्वरीम् । मुखानि कैरवाणीव हसन्ति नियतं सताम् ॥ ७ ॥ घटी पटीयसी सैव तद् गलद्वृजिनं दिनम् । समयोऽसौ रसमयो यत्र त्वदर्शनं भवेत् ॥ ८ ॥ श्रीशमीनाभिधः पार्श्वः पार्श्वयक्षनिषेवितः । इति स्तुतो वितनुतां यशोविजयसम्पदम् ॥ ९ ॥ **** [ ११९ ] श्रीगोडीपार्श्वस्तवनम् । .... ( ३९३ ) स्मरः स्मारं स्मारं भवदवथुमुच्चैर्भवरिपोः पुरस्ते चेदास्ते तदपि लभते तां बत दशाम् । ॥ ६ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy