________________
rrrrrrnmmmmmm
वाचकविरचितम् ] श्रीशद्धेश्वरपार्श्वजिनस्तोत्रम् । ( ३८७ ) कृतप्रेसर्पद्रथचक्रचूर्णितक्षमारजःकैतवपापचूर्णनैः । अनारतं त्वं जिन ! सङ्घनायकैरुपास्यते (से) मङ्गलनादसादरैः ॥६॥ स्त्रियः प्रियध्वानमुपेत्य तन्वते तथा पुरस्ते जिन ! सङ्घसङ्गताः । यथा तदाकर्णनजातविस्मया भवन्ति सर्वाः स्तिमिताः सुरप्रियाः ॥ प्रियस्वनैः सङ्घजनैस्त्वदालयप्रदक्षिणादानपरायणैर्धनैः । । महान्तरीपं परितः प्रसत्वरा अनुक्रियन्ते जलधेर्महोर्मयः ॥ ६५ ॥ मृदङ्गवेणुध्वनिभिर्विसृत्वरैः समुच्छलत्पञ्चममूर्छनाभरैः। अनारतं सङ्घवृते त्वदालये शिवश्रियो नृत्यविधिर्विजम्भते ॥६६॥ जगज्जनानन्दन ! चन्दनद्रवैस्त्वदङ्गमभ्यर्च्य ससान्द्रकुङ्कुमैः । कथं भजन्ते भुवि सङ्घमानवाः समग्रतापप्रशमेन निर्वृतिम् ? ॥६७॥ अवेक्ष्य धूमं तव चैत्यमूर्धनि प्रसपिंकृष्णागुरुधूपसम्भवम् । समुन्नमन्मेघधिया कलापिनामुदेत्य विश्रान्तमकाण्डताण्डवम् ॥१८॥ वनं यथा पुष्पभरेण पावनं ग्रहव्रजैर्वा गगनं प्रकाशिभिः । तथा सदा सङ्घजनरलङ्कृतैर्विराजते त्वद्भवनं श्रिया धनम् ॥६९।। प्रसारयेत् कः पुरतः स्वपाणी कल्पद्रुमस्य त्वयि दानशौण्डे ? । काष्ठत्वसंसर्गजदोषजास्य श्रुता हि लीनालिमिषात् कुकीर्तिः ॥७॥
१ कृतं प्रसर्पतू-चलत् रथस्य चक्रं तेन चूर्णितक्षमारजः तस्य मिषात् पापस्य चूर्णनं यैस्तैः सङ्घनायकैः । २ प्रियगीतानि स्त्रियः तथा तन्वते यथा तानि श्रुखा सुरप्रियाः स्तिमिताः स्तब्धा मुग्धा वा भवन्ति । ३ घनैः प्रियस्वनैः सङ्घजनैर्महान्तरीपं-द्वीपं इव त्वां जलधेः प्रमृत्वरा ऊर्मयोऽनुक्रियन्ते । ४ यथा ग्रहसमूहैस्तारादिभिः व्योम तथा श्रिया-शोभया घनं पूरितं त्वद्भवनं विराजते ॥