________________
( ३८६) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयउपेक्षमाणोऽप्युपकृत्य कृत्यविज्जगत्त्रयीं यद् दुरिताददीधरः । परः सहस्रा अपि हन्त ! तत्परे यशो न शोधुं निरताः प्रतारकाः ५५ हरेः समीपे हरिणा यदासते स्फुरन्ति नागाः पुरतो गरुत्मतः । अयं प्रभावस्तव कोऽप्यनुत्तरो विपश्चितां चेतसि हर्षवर्षदः ॥५६॥ अलौकिकी योगसमृद्धिरुच्चकैरलौकिक रूपमलौकिकं वचः । न लौकिकं किञ्चन ते समीक्ष्यते तथापि लोकत्वधिया हताः परे । विनैव दानं तैतदानकीर्तये विना च शास्त्राध्ययनं विपश्चिते । विनानुरागं भवते कृपावते जगज्जनानन्दकृते नमो नमः ॥ ५८ ॥ स्मरापहस्याप्यभवस्य विस्फुरत्सुदर्शनस्याप्यजनार्दनस्यच । न नाभिजातस्य तवातिदुर्वचं स्वरूपमुच्चैः कमलाश्रयस्य ॥५९॥ चतुर्मुखोऽङ्गीकृतसर्वमङ्गलो विराजसे यन्नरकान्तकारणम् । विरञ्चिगौरीशमुकुन्दसज्ञिता सुरत्रयी तत् त्वयि किंन लीयते ॥६०॥ वृथा कथासौ परदोषघोषणैस्तव स्तुतिर्विश्वजनातिशायिनः । प्रसिद्धिहीनादनपेक्ष्य तुल्यतां भवेदलीकातिशयान्न वर्णना ॥६॥ अलं कलकैर्भणितैः परेषां निजैर्गुणैरेव तवास्ति शोभा । महोभैरैरेव तव प्रसिद्धिः पतङ्गनिन्दानिकरैः किमस्य ? ॥ ६२ ॥
१ दुरिताद् उद्धरणरूपं तद् यशः शोधू लब्धं ( रोध्धुं ) दूरीकर्तु वा परे सहस्राणि तीर्थिकाः प्रतारका न निरताः-तत्परा भवन्ति ॥ २ विस्तृता-महतो वा कीर्तिर्यस्य तस्मै ॥ ३ चतुर्दिङ्मुखः ब्रह्मा वा । नरकास्यस्य गतेर्विनाशकः महादेवश्च । किं न लीयते ? अपि तु सा त्रयी त्वयि अन्तर्भवति । ४ प्रसिद्धिहीनात् पदार्थात् तुल्यतामपेक्ष्य वर्णना भवेत् ।