________________
वाचकविरचितम् ] श्रीशङ्खश्वरपार्श्वजिनस्तोत्रम् । ( ३८५ ) भूयासमिन्द्रार्च्य ! भवद्भुजिष्यस्तव क्रमाम्भोजमधुव्रतः स्याम् । वहेय मौलौ परमां त्वदाज्ञां स्तवे भवेयं तव सावधानः ॥ ४६ ॥ त्वमीशिताहं तव सेवकश्चेत् ततः परा का पदवी विशिष्टा ! | समेधमानेऽत्र हि सन्निकर्षे पुरन्दरर्द्धिः प्रथते पुरस्तात् ॥ ४७ ॥ परेषु दोषास्त्वयि देव ! सद्गुणा मिथोऽवलेपादिव नित्यमासते । स्फुरन्ति नेन्दावपतन्द्रचन्द्रिकास्तमोभरा वा किमु सिंहिकासुते ! ||४८ विशङ्कम दधते विलासिनी र्विशिष्टमिच्छन्ति च देवतायशः । परे तदेते ज्वलता हविर्भुजा वितन्वते तापसमापनार्थिताम् ॥ ४९ ॥ कुदृष्टिभिर्देवतैया श्रितेषु वा परेषु दोषोऽस्ति न नाम कश्चन । न मूढरूप्यभ्रमभाजनेष्वपि प्रवर्तते रङ्गगणेषु दुष्टता ॥ ५० ॥ सरागता चेज्जिनदेवमाश्रयेत् तमस्तदा तिग्मरुचं पराभवेत् । विरागता वा यदि तं न संश्रयेत् तदा प्रकाशोऽपि न भानुमालिनम् ॥ गवां विलासस्तव देव ! भास्वतस्तमोभरं घ्नन्ति भुवि प्रसत्वरम् । अशेषदोषोपशमैकवृत्तयः प्रकाशमन्तः परमं प्रकुर्वते ॥ ५२ ॥ इदं महच्चित्रमहीनजातिजोऽप्युदग्रभोगप्रसरात् पराङ्मुखः । जनार्दनायोगकृतप्रसिद्धिभाग् न वैनतेयश्रियमातनोऽसि न ॥ ५३ ॥ जिनाऽसहायेन विनिर्जितकुधा विना जिगीषां च विना रणोत्सवम् । त्वया जितं यद् द्विषतां कदम्बकं जगज्जनानन्दकरं न किन्नु तत् ॥
B
१ सिंहिकासुते - राहौ । २ तापस्य समापना - पूर्तिः तस्याः अर्थितां - प्रार्थितां परे हविर्भुजा वितन्वते । ३ देवबुद्धया । ४ नास्ति सहाया यस्य तेन असहायेन । ५ निजता क्रुत्-क्रोधो येन तेन त्वया ।
૫
7