________________
( ३८८ ) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयलब्ध्वा भवन्तं विदितं वदान्यं याचेत चिन्तामणिमादृतः कः ।। विधोरिवाङ्केन महस्विनोऽपि पाषाणभावेन दितं यशोऽस्य ॥७॥ अभ्यर्थनीयाऽपि न कामधेनुः प्रसद्य सद्यो ददति त्वयीश ! । इयं पशु किमनो धिनोतु पयोभरैरेव न दानकीर्त्या ॥७२॥ न पाटवं कामघटस्य दाने भिदेलिमस्योपलतः क्षणेन । सदा प्रदानोत्सवकान्तकीर्ति विहाय तत्त्वां सजतीह को वा॥७३॥ त्वत्तः प्रसीदन्ति हि कामधेनुकल्पद्रुचिन्तामणिकामकुम्भाः । त्वदप्रसत्तौ च तदप्रसत्तिरिति त्वमेवासि बुधैर्निषेव्यः ॥७॥ कायप्रयासेन निषेव्यमाणाश्चिरं नृपाः स्वल्पकृपा भवन्ति । भवांस्तु भक्त्यैव तनोति सर्वमनोरथान् इत्यखिलातिशायी ॥७॥ स्वर्गापवर्गार्पणसावधानं त्वां याचते वैषयिकं सुखं कः ? । कल्पद्रुमं को बदरीफलानि याचेत वा चेतनया विहीनः ॥७ ॥ त्वदीयसेवा विहिता शिवार्थ ददाति भोगानपि चानुषङ्गात् । कृषीबलाः शस्यकृते प्रवृत्ताः पलालजालं त्वनुषङ्गसङ्गि ७७॥ सितोपला त्वद्वचसा विनिर्जिता तृणं गृहीत्वा वदने पलायिता । क्षणादसङ्कुच्यत हारहूरया ततस्त्र(त्र)पानिर्गतकान्तिपूरया ॥७८॥ रसैगिरस्ते नवभिमनोरमाः सुधासु दृष्टा बहुधापि षड् रसाः। अतोऽनयोः कः समभावमुच्चरेद् वरेण्यहीनोपमितिर्विडम्बना ॥७९॥ तृणैकजात्येषु यदल्पसारता विचक्षणैरिक्षुषु दिक्षु गीयते । समग्रसारा तव भारती ततः कथं तदौपम्यकथाप्रथाऽसहा ॥८॥ भवद्वचःपानकृतां न नाकिनां सुरद्रमाणां फलभोगनिष्ठता। द्विधाप्यमीषां न ततः प्रवर्तते फलैत्रपाभिश्च न भारनम्रता ॥८॥