________________
( ३८२) जनस्तोत्रसन्दोहे। [श्रीयशोविजयमोहावृतानामपि शास्त्रपाठो हा महानर्थकरः परेषाम् ।। रागैकलुब्धस्य हि लुब्धकेभ्यो वधाय नूनं हरिणस्य कर्णौ ॥१४॥ शमो दमो दानमधीतिनिष्ठा वृथव सर्व तव भक्तिहीनम् । भावक्रियां नैव कविप्रबन्धो रसं विना यच्छति चारुबन्धः ॥१५॥ अन्तर्मुहूर्त विहितं तपोऽपि त्वदाज्ञया देव | तमस्तृणेढि । विना तु तां हन्त ! युगान्तराणि कथापि न क्लेशकृतां शिवस्य॥१६ अज्ञानजं बन्धनमङ्गभाजां ज्ञानं विना देव! कथं व्यपैति । अधर्मजं जाड्यमुपैति नाशं न धर्मरश्मेहि विना प्रतापम् ॥१७॥ न ज्ञानमात्रादपि कार्यसिद्धिविना चरित्रं भवदागमेऽस्ति । अपीक्षमाणः पदवीं न पङ्गुर्विना गति हन्त ! पुरं प्रयाति ॥१८॥ संसारसिन्धाविह नोस्ति किश्चिदालम्बनं देव ! विना त्वदाज्ञाम् । तया विहीनाः परकष्टलोना हहा महामोहहताः पतन्ति ॥१९॥ महोषधी जन्मजरामयानां महार्गला दुर्गतिमन्दिरस्य । खानिः सुखानां कृतकर्महानिराज्ञा त्वदीयास्ति जिनेन्द्रचन्द्र !॥२०॥ रागं च कोपं च न नाथ ! धत्से स्तुत्यस्तुतीनां च फलं प्रदत्से । लोकोत्तरं किञ्चिदिदं त्वदीयं शील समाशीलितविश्वलीलम् ॥२२॥ त्वद्ध्यानबद्धादरमानसस्य त्वद्योगमुद्राभिनिविष्टबुद्धेः । तवोपदेशे निरतस्य शश्रत् कदा भविष्यन्ति शमोत्सवा में ॥२॥ अकुर्वतः सम्पति लब्धबोधि समीहमानस्य परां च बोधिम् । न साम्प्रतं किञ्चन साम्प्रतं तर दयस्व दीनं परमार्थहीनम् ॥२३॥ निर्वेदमुख्यं च भवन्तमेव नाथन्ति नाथं यतयो न चान्यम् । सुधार्थमुच्चैबुधाः सुधांशुं नाथन्ति नान्यं ग्रहमप्युदारम् ॥२४॥