________________
वाचकविरचितम् ] श्रीशखेश्वरपार्श्वजिनस्तोत्रम् । ( ३८१ ) अवर्ण्यसंवर्णनकश्मलाविलः स्वकार्यरक्तस्य कवेगिरां रसः । गुणस्तवैर्देव ! तवातिनिर्मलो भवत्यवश्यं कतकोत्करोपमैः ॥३॥ गुणास्त्वदीया अमिता इति स्तुता-वुदासते देव ! न धीधना जनाः। मणिष्वनन्तेषु महोदधेरहो न किं प्रवृत्तेरुपलम्भसम्भवः ? ॥४॥ भवद्गुणैरेव न चेदवेष्टयं स्वयं गिरं चित्रकवल्लिमुच्चकैः। तदा न किं दुर्जनवायसैरसौ क्षणाद् विशीर्येत निसर्गभीषणैः ? ॥५॥ न जानते नाथ ! यथा पथःस्थितिं प्रगल्भमानाश्च नृपानुपासते । श्रियं लभन्ते च विशृङ्खलाः खला इतीदमुच्चैः कलिकालचेष्टितम् ॥६॥ अमीषु तीर्थेश ! खलेषु यत् पटुर्भवद्भुजिष्यस्तदिहासि कारणम् । हविर्भुजां हेतिषु यन्न दह्यते करः परस्तत्र गुणो महामणेः ॥७॥ कलौ जलौघे बहुपङ्कसङ्करे गुणवजे मजति सज्जनार्जिते । प्रभो ! वरीवर्ति शरीरधारिणां तरीव निस्तारकरी तव स्तुतिः ॥८॥ खलैः किमेतैः कलिकाललालितैर्विपश्चितां नाथ ! यदि प्रसीदसि । पराक्रमः कस्तमसां महीयसां तनोति भासं महसां पतिर्यदि ॥९॥ अमूढलक्ष्यत्वमिहेश ! दुर्जने न सम्यगन्धाविव तत्त्वचालनम् । कथा नु कोलाहलतां विगाहते ततः कथं नाथ ! बुधः प्रवर्तताम् ॥१० यथा पथा यात्युपमद्य कण्टकान् जनो मनोऽभीहितबद्धलालसः । त्वदाज्ञया देव ! निहत्य दुर्जनान् तथा विधेयैव कथा विपश्चिता॥११ संवादसारा भवदागमा यजगच्चमत्कारकराः स्फुरन्ति । उच्छृङ्खलानां नियतं खलानां मुखे मषीलेपमहोत्सवोऽसौ। ॥१२॥ भवन्तमुत्सृज्य विलीनरागं परं भजन्ते स्वहितार्थिनो ये । तेषां वयं देव ! सचेतनानां विमो विशेषं किमचेतनेभ्यः ॥१३॥