________________
वाचकविरचितम्] श्रीशलेश्वरपाश्चजिनस्तोत्रम्। ( ३८३ ) त्वत्तो न तीर्थेश ! परः कृपालमत्तः कृपापात्रमपीह नान्यः । अतोऽस्ति योग्योऽवसरः कृपाया ब्रुवे किमन्यजगदीशितारम् ॥२५॥ अथास्ति चेदेष जनः समन्तुस्तथाप्यहो! ते किमुपेक्षणीयः ।। सकण्टक किं न सरोजखण्डमुन्मीलयत्यंशुभिरंशुमाली ॥२६॥ कृपावत न स्वकृतोपकारे सदोषनिर्दोषविचारणास्ति । समं धनः सिञ्चति काननेषु निम्बं च चूतं च धनाभिरद्भिः ॥२७॥ मुखं प्रसन्नं हसितेन्दुबिम्ब नेत्रे कृपार्दै जितफ्मपत्रे । पासवस्था च तनुः प्रशान्ता न योगमुद्रापि तवाप्युतान्यैः ॥२८॥ त्वद्योगमुद्रामपि वीक्षमाणाः प्रशान्तवैराः पुरुषा भवन्ति । विशिष्य वक्तुं कथमीश्महे तत् तवान्तरङ्ग प्रशमप्रभावम् ॥२९॥ मूर्तिस्तव स्फूर्तिमती जनार्तिविध्वंसिनी कामितचित्रवल्ली । विश्वत्रयीनेत्रचकोरकाणां तनोति शीतांशुरुचां विलासम् ॥ ३० ॥ फणामणीनां घृणिभिर्भुवीश ! मूर्तिस्तवाभाति विनीलकान्तिः । उद्भिनरक्ताभिनवप्रवालप्ररोहमिश्रेव कलिन्दकन्या ॥ ३१ ॥ तवेश! मौलो रुचिराः स्फुरन्ति फणाः फणीन्द्रप्रवरस्य सप्त । तमोभरं सप्तजगज्जनानां धृता निहन्तुं किमु सप्त दीपाः ॥३२॥ त्वन्मौलिविस्फारफणामणीनां भाभिर्विनिर्यत्तिमिरासु दिक्षु । स्वकान्तिकीर्तिप्रशमात् प्रदीपाः शिखामिषात् खेदमिवोमिरन्ति । ध्यानानले सप्तभयेन्धनानि हुतानि तीवाभयभावनाभिः । इतीव किं. शंसितुमीश ! दधे मौलौ त्वया सप्तफणी जनेभ्यः ॥३४॥
१ विना त्वदाज्ञामपि।