________________
विरहितम् ]
श्रीमन्त्राधिराजस्तोत्रम् ।
(३७९)
पातालभूतलव्योमचारिण छत्यकारिणः । ___ न द्रष्टुमपि शक्तास्तं रक्षितं जिननामभिः ॥१०॥ जिनेति जिनभद्रेति जिनचन्द्रेति वा स्मरन् । __ नरो न लुप्यते पापैर्भुक्तिं मुक्तिं च विन्दते ॥११॥ जगज्जेत्रकेमन्त्रेण जिननाम्नैव रक्षितम् ।
लिखित्वा धारयेद् यस्तु करस्थाः सर्वसिद्धयः ॥१२॥ वज्रपञ्जरनामेदं यो जैनकवचं पठेत् ।
अव्याहताङ्गः सर्वत्र लभते जयमङ्गलम् ॥१३॥ ललाटे दक्षिणस्कन्धे वामस्कन्धे करेऽपि च । __ वामकक्षौ वामकट्यां जानौ पदतलेऽपि च ॥१४॥ नाभौ गुह्ये दक्षिणांहि-तले दक्षिणजानुके ।
कटी कक्षे हस्ततले स्तनेषु दक्षिणेषु च ॥१५॥ वामस्तने चेति मन्त्रवर्णान् सप्तदश स्मरेत् । ___ ॐ ह्री प्रमुखास्तस्य स्युर्मनीषितसिद्धयः ॥१६॥ यश्चैनां दृष्टवान् स्वप्ने जैनरक्षामिह प्रभुः।
जिनेन्दाख्य गुरुः प्रातः प्रबुद्धस्तां तथाऽलिखत् ॥१७॥ ॐॐ हा ही हूँ है हौ हूँ इः यः क्षः फुट् स्वाहा ए हैं।
अस्य स्तोत्रस्य मन्त्रम् । मन्त्राधिराजाक्षरवर्णयुक्तं तेषां जिनाङ्गेषु निवेशितांङ्गी (१)। वक्ष्ये यथा तत् प्रथमं च तत्र ओमक्षरं नीलरुचिं ललाटे ॥१८॥ ॐ दक्षिणाङ्गे पुनरेव शोणं वामांसक हूँ। भज पञ्चवर्णम् । । सिन्दूरभं ही स्मर वामहस्ते हूँ धूम्रवर्णं भण वामकुक्षौ ॥१९॥