________________
( ३५२) जैनस्तोत्रसन्दोहे [कर्तृनाम
[११०] श्रीगिरनारमंडन-नेमिजिनस्तवनम् ।
श्रीउज्जयन्तशैलेशतुङ्गश्रृङ्गविभूषण ! श्रीमन्नेमिजिनाधीश ! जयश्रीकलमंदिर ! ॥ १ ॥ दृष्टः पुण्येन येन त्वं दुर्लभोऽपि मया भवे । दर्शनेन स्वकीयेन तत् पुषाण ममाधुना ॥ २ ॥ कन्दर्पमत्तमातङ्गघातसिंहोपमाय ते । नमोऽस्तु जगदानन्दकारिणेऽधनिवारिणे ॥ ३ ॥ त्वं माता त्वं पिता देव ! त्वं त्राता जगदीश ! मे । भवाम्भोधौ पतन्तं मां पाहि पाहि कृपानिधे ! ।। ४ ।। सृतं देवतया देव ! सृतं मानुषिकैः सुखैः । श्रीनेमे ! सततं मेऽस्तु सुलभं तव दर्शनम् ॥ ५ ॥
RS.