________________
नामकम् ]
श्रीपाश्चजिनस्तवनम् .
[१०९] स्तम्भपुरावतंसश्रीपार्श्वजिनस्तवनम् ।
रमाकरो यो जगतो रमाकरो रुगावलीनां हरणे रुगावली । सदैव तं पार्श्वजिनं सदैवतं समाहितं नौमि हतासमाहितम् ॥१॥ सुखावली नारिभवा सुखावली रजद्वयं ते पदनीरजद्वयम् । सुभावतो वृत्तिसमैः सुभावतो महामहिम्नां भवनं महामहि ॥२॥ सुवर्णतेजोनिभया सुवर्ण ते प्रभूतया कान्तनखप्रभूतया । पदारविन्दं रुचि सम्पदा रविं सदानवं द्वेष्टि सदा सदानवम् ॥३॥
कुलं भवग्रीष्मसमाकुलं भवन्मुखं विशान्ति शरणोन्मुखं विशाम् । सुधाम योगीश ! यथा सुधामयोऽभयानकः प्रौणवतीभनायकः ॥४॥ घ्नतो महातायक ! विघ्नतो महाननारतं तावकमाननारतम् । रमासमासेवितनारमासदालिनीव नन्देन मृणालिनी वनम् ॥५॥ दरं हरन्तं समसुन्दरं हरं मनोभवे त्वं शिवकामनो भवे । भ्रमन्नवापं मनसो भ्रमं नवा शयाधुनानं शुभगाशयाऽधुना ॥६॥
इत्थं श्रीस्तम्भन पुरवरे x x x x