________________
onrnv
( ३४६ ) जैनस्तोत्रसन्दोहे [ कर्तृनामचन्द्रानना जगद्धात्री वीणाम्बुजकरद्वया ।
सुभगा सर्वगा स्वाहा जमिणी स्तम्भिनीश्वरा ॥ ६ ॥ काली कापालिनी कौली विज्ञा रात्री त्रिलोचना ।
पुस्तकव्यग्रहस्ता च योगिन्यमितविक्रमा ॥ ७ ॥ सर्वसिद्धिकरी सन्ध्या खङ्गिनी कामरूपिणी ।
सर्वसत्वहिता प्रज्ञा शिवा शुक्ता मनोरमा ॥ ८ ॥ माङ्गल्यरुचिराकारा धन्या काननवासिनो ।
अज्ञाननाशिनी जैनी अज्ञाननिशिभास्करी ॥ ९ ॥ अज्ञानजनमाता त्वमज्ञानोदधिशोषिणी ।
ज्ञानदा नर्मदा गङ्गा शीता वागीश्वरी धृतिः ॥१०॥ ऐकारमस्तका प्रीतिः हीकारवदना हुतिः ।
क्लीकारहृदया शक्तिरष्टबीजा निरक्षरा ॥ ११ ॥ निरामया जगत्स्था निःप्रपञ्चा चञ्चला चला ।
निरुत्पन्ना समुत्पना अनन्ता गगनोपमा ॥ १२ ॥ पठन्त्यमूनि नामानि अष्टोत्तरशतानि यः ।
वत्सं धेनुरिवायाति तस्मिन् देवी सरस्वती ॥ १३ ॥ त्रिकालं च शुचीभूत्वा अष्टमासान् निरन्तरम् ।
पृथिव्यां तस्य सम्भ्राम्यत्यानन्दकवयो यशः ॥ १४ ॥ द्रुहिणवदनपछे राजहंसीव शुभ्रा
सकलकलुषवल्लीकन्दकुद्दालकल्पा ।