________________
( २५२ )
जैनस्तोत्रमन्चाहे [श्रीधर्मप्रोतः वीतरागं स्तुवे कुन्थु जिनं शम्भुं स्वयम्भुवम् । सरागत्वात् पुनर्नान्यं जिनं शम्भु स्वयम्भुवम् ॥२२॥ विजिग्ये लीलया येन प्रद्युम्नो भवताऽदरः । भविनां भवनाशाय प्रद्युम्नो भवतादरः ॥२३॥ स स्यान्मल्ले ! नमल्लेखो मल्लस्य प्रतिमल्लते । क्रमौ मनसि यो मोहमल्लस्य प्रतिमल्ल ते ॥२४॥ विधत्ते सर्वदा यस्ते ससुव्रत ! समुन्नतिम् । समास्वादयति स्वामिन् ! स सुव्रत ! समुन्नतिम् ॥२५॥ दृष्ट्वा समवसृत्यन्तनमीशं चतुराननम् । पश्येत् कोऽजितखं धीमानमीशं चतुराननम् ॥२६॥ श्रीनेमिनाथमानौमि समुद्रविजयाङ्गजम् । हेलानिर्जितसम्प्राप्तसमुद्रविजयाऽङ्गजम् ॥२७॥
अवचूरिः। जिनं-विष्णुम् , शम्भु-शिवम्, स्वयम्भुवं - ब्रह्माणम् ॥ २२ ॥ कामः । अदरः-निर्भयः । प्रकृष्टेन त्यक्तं द्युम्नं-द्रव्यं येन स त्वम् । भवतात्-भव । हे अर !-जिन ! ॥ २३ ॥ नमन्त:-नमनशीला लेखा-देवा यस्य स तथा 'मदैच हर्ष' मदन-मत् 'कुरसम्पदादिभ्यः' क्किप्प्रत्ययः । मदं-हर्ष लाति-ददाति कचित्' (५।।। १७१) मल्लस्य हर्षदस्य । यद्वा मल्लस्य-अहङ्कारलावकस्य प्रतिमलते-धारयति ॥ २४ ॥ सह शोभनेः सः । समुत्-सहर्षः ॥ २५ ॥ जितखं जितेन्द्रियम् । अजितखं-अजितीन्द्रयम् । अं-विष्णुम् , ईश-हरम्, चतुराननं-प्रजापतिम् ॥ २६ ॥ सम्प्राप्तः आसमुद्र विजयो येन अङ्गजेन स हेलया निर्जितो नेमिना ॥ २७ ॥