________________
सूरिप्रणीता] चतुविशतिनिस्तुतयः (२५३)
शिवार्थी सेवते ते श्रीपार्श्व ! नालीककोमलौ । न क्रमावनिशं नम्रपार्श्व ! नाऽलीक! कोऽमलौ ॥२८॥ वरिवस्यति यः श्रीमन्महावीरं महोदयम् ।
सोऽश्नुते जितसम्मोहमहावीरं महोदयम् ॥२९॥ श्रीसीमन्धरजिनस्तुतिः
श्रीसीमन्धरतीर्थेशं सादरं नुतनिर्जरम् ।
योऽज्ञानं विदधे भस्मसादरं नुत निर्जरम् ॥३०॥ पञ्चदशक्षेत्रजजिनस्तुतिः
ये वन्दन्तेऽर्हतो भारतैरावतविदेहकान् ।
प्राप्यते प्रवरोदर्का तै रा बत विदेहकान् ॥३२॥ सप्ततिशतजिनस्तुतिः--
सप्ततिशतं जिनानामुत्कृष्टपदवर्तिनाम् । वन्दे मनुष्यलोकेऽहमुत्कृष्टपदवर्तिनाम् ॥३२॥
अवचूरिः । नम्रः पाचौं यस्य सः सं० । असत्यरहित ! अमलौ-निर्मलौ ॥ २८ ॥ महान उदयो यस्य तम् । अश्नुते-प्रामोति । महोदयंनिर्वाणम् ॥ २९॥ नुत-स्तुत । निर्जर-जरारहितम् । नुतनिर्जर-प्रणुतसुरस् ॥ ३० ॥ भरतरावतविदेहकेषु भवान् , भरतैरावतविदेहकेषु नाकान्ति-शोभन्ते 'क्वचित् ड.( ) प्रवरोदर्का-शुभायतिफला पुण्यानुबन्धिषुण्यफला इत्यर्थः । रा-लक्ष्मीः । बत इत्यामन्त्रणे । विदेहकीन्-विदेहान् ॥३१॥ सर्वोत्कर्षतो युगपत् एककालभाबिनाम् । उस्कृष्टपदे-प्रधानपदे ॥ ३२ ॥