________________
M
सूरिविरचिताः ] चतुर्विशतिजिनस्तुतयः ( २५१ )
यथा त्वं शीतल ! स्वामिन् ! सोमः सोमो मनोऽहरः। भव्यानां न तथा भाति सोमः सोमो मनोहरः ॥ १५ ॥ तं वृणोति स्वयंभूष्णुश्रेयांसं बहु मानतः । जिनेशं नौति यो नित्यं श्रेयासं बहुमानतः ॥ १६ ॥ वाक्यं यस्तव शुश्राव वासुपूज्य ! सनातनम् । भवे कुर्यात् तमोदाववाः सुपूज्य ! सनाऽतनम् ॥१७॥ कस्य प्रमोदमन्यत्र विमलात् परमात्मनः । हृदयं भजते देवाद्विमलात् परमात्मनः ॥१८॥ दृष्ट्वा त्वाऽनन्तजिद् ! भावपराजितमनो भवम् । भविनां नाथ ! नोऽभ्येत्यपराजितमनो भवम् ॥१९॥ श्रीधर्मेण क्षमारामप्रकृष्टतरवारिणा । सनाथोऽस्मि कृच्छ्रवल्ली प्रकृष्ट तरवारिणा ॥२०॥ त्वया द्वैधारिवर्गो यत् पदौ श्रीशाऽऽन्ति नाथते । शरणं तद्भवी ध्वस्तापदौ श्रीशान्तिनाथ ! ते ॥२१॥
अवचूरिः। सोमः-शीतलः । सह उमया-कीर्त्या । सोमः-अरौद्रः। सोमःगौरशरीरयुक्तः ॥ १५॥ अप्रार्थितमपि स्वयं भवनशीलम् श्रेयःभद्गम् यस्य तम् । बहु-अत्यर्थम् । मा-लक्ष्मीः । नतो-नम्रः । आन्तर.. प्रीतितः ॥ १६ ॥ सनातन-नित्यम् अतन-गमनम् ॥ १७ ॥ परं-प्रकृष्टम् । आत्मनः ॥ १८॥ भावपरैः-आन्तरवैरिभिः हरम् ॥१९॥ प्रकृष्टेन-प्रकर्षण। प्रकृष्ट-विनाशय इत्यर्थः । तरवारिः-खड़विशेषः ॥ २० ॥ बाह्य आन्तरश्च । आन्ति-बबन्धे । नाथते-इच्छति ॥२१॥