________________
(२५०) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष
सनातनाय सेनाङ्गभव ! शं भव शम्भव !। भगवन् ! भविकानामभव ! शम्भवशम्भवम् ॥ ८ ॥ दुष्कृतं मे मनोहंसमानस ! स्याऽभिनन्दन !। श्रीसंवरधराधीशमानसस्याभिनन्दन ! ॥ ९ ॥ अज्ञानतिमिरध्वंसे सुमते ! सुमतेन ! ते । क्रियते न नमः केन सुमतेऽसुमतेन ते ॥ १० ॥ त्वां नमस्यन्ति येऽङ्कस्थपन ! पद्मप्रभेश ! ते । त्रैलोक्यस्य मनोहारिपद्म ! पद्मप्रभेशते ॥ ११ ॥ सद्भक्त्या यः सदा स्तौति सुपार्श्वमपुनर्भवम् । सोऽस्तजातिमृतिर्याति सुपार्श्वमपुनर्भवम् ॥ १२ ॥ सहर्षा ये समीक्षन्ते मुखं चन्द्रप्रभाऽङ्ग ! ते। विदुः सकलसौख्यानां मुखं चन्द्रप्रभाङ्ग ! ते ॥ १३ ॥ सदा स्वपादसलीनं सुविधे ! सुविधेहि तम् । येन ते दर्शनं देव ! सुविधे सुविधेहितम् ॥ १४ ॥
अवचूरिः। शाश्वताय सुरवाय । प्लुतविवक्षणात् अकाराभावे मलुक् । हे अजन्मन् ! ॥ ८ ॥ छिन्द्धि ॥९॥ शुद्धमते !-शोभनमते । रविरिवाचरति ॥ १० ॥ मनोहारिणी पद्मा-श्रीः यस्या नाथो भवति ॥११॥ न पुनः भवः संसारस्य जन्मनो वा यस्य । मोक्षम् ॥ १२ ॥ अङ्ग इति कोमलामन्त्रणे । मुख-उपायं चारित्राद्यात्मकं, तन्मूलत्वात् स्वर्गापवर्गादिसौरच्यानाम् ॥ १३ ॥ शोभनविधे! सुष्टु विधया-प्रका. रण इहितं वाञ्छितं-चेष्टितं वा क्रियाद्वारेण समाचरितम् ॥ ११ ॥