________________
सूरिविनिर्मिताः] श्रीवविज्ञलिजिनस्तुतयः (२९)
प्रातस्तेऽङघ्रिद्वयी येन सरोजास्य ! समा नता । त्वयाऽस्तु जिनधर्माजसरोऽजाऽस्य ! समानता ॥ २ ॥ वन्दे देव ! च्युतोत्पत्तिव्रतकेवलनिर्वृतिम् । विश्वार्चित ! च्युतोत्पत्तिव्रतके बलनिर्वृतिम् ॥ ३ ॥ चतुरास्यं चतुःकायं चतुर्द्धा वृषसेवितम् । प्रणमामि जिनाधीशं चतुर्धावृषसेऽवितम् ॥ ४ ॥ जिनेन्द्रानञ्जनश्यामात् कल्याणाजहिमप्रभान् । चतुर्विंशतिमानौम्यकल्याणाब्जहिमप्रभान् ॥ ५ ॥ विलोक्य विकचाम्भोजकाननं नाभिनन्दनम् । द्रष्टुमुत्कायते कोऽपि काननं नाभिनन्दनम् ॥ ६ ॥ भवानीश ! सदा यस्याजित ! निष्कोप ! नाथति । अहितो न हि तं स्वाभिजितनिष्कोपनाथति ॥ ७ ॥
अवचूरिः। सह मया-श्रिया या सा समा। हे अज!-अजन्मन् ! । त्वया समानता ॥ २ ॥ च्युतोत्पत्तिः-गतजन्मा। व्रतस्य कं-सुखं तस्य ई:श्रीः यस्य । वला-पुष्टा निवृतिर्यस्य । ततो द्वन्द्वः । च्युतम्-च्यवनम् ॥ ३ ॥ वृषभैः-इन्द्रः, देवानां चतुर्धात्वेन तत्स्वामिनामपि चातुविध्यम् । यद्वा देवानां वृषाण: 'ते लुग वा' (३-२-१०८) इति देवपदलोपः। सह इया-श्रिया यः स से, अवित:-कान्तिमान ततो द्वन्द्वः ॥ ४ ॥ अब्जं-रक्तोत्पलमत्र ग्राह्यम्। चन्द्रः ॥५॥ श्रमणभावत्वेन लुञ्चितकेशम्। विकसितं वा । कनति वा-शोभते यत् तत् अम्भोज कन् ततो बहुव्रीहिः । उत्सुक: स्यात् ॥ ६ ॥ नाथ इव आचरति-योगक्षेमकारी भवति। दहेप्रभया। पीडयति ॥ ७ ॥