________________
(३८) जैनस्तोत्रसन्दोहे [श्रीधर्मको कुन्थुमघरवो भवादवतु वो मानेभकण्ठीरवो
भक्त्या नम्रनरामरं जिनवरं प्रास्तस्मरं नौम्यरम् । श्रीमल्लेखनतक्रमोज्झिततमो मल्लेऽस्तु तुभ्यं नमो
विश्वार्यों भवतः स पातु भवतः श्रीसुव्रतः सुव्रतः ॥६॥ लोभाम्भोजतमेश्वरोपम ! नमे ! धर्मे धियं धेहि मे
वन्देऽहं वृषगामिनं प्रशमिनं श्रीनेमिनं स्वामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तवृजिनं दान्ताक्षदुर्वाजिनं
नौमि श्रीत्रिशलाङ्गजं गतरुनं मायालतायां गजम् ॥८॥ इत्थं धर्मवचोवितानरचितं वयं स्तवं मुद्युतः
सद्धर्मद्रुमसेकसंवरमुचां भक्त्याहतां नित्यशः । श्रेयःकीर्तिकरं नरः स्मरति यः संसारमाकृत्य सो
ऽतीतातिः परमे पदे चिरमितः प्राप्नोत्यनन्तं सुखम्॥८॥ ( कमलबन्धकाव्यं कबिनामगर्भम् )
[९८]
यमकमया: चतुर्विंशतिजिनस्तुतयः ।
जिनं यशःप्रतापास्तपुष्पदन्तं समं ततः ।। संस्तुवे यत्क्रमौ मोहं पुष्पदन्तं समन्ततः ॥ १ ॥
अवचूरिः।। सामान्येन जिनसिद्धान् स्तौति - अर्हतं पुंडरीकादिसिद्धं का सभं-सश्रीकं भक्ताभक्तेषु तुल्यं वा ततः तम् 'आधादिभ्यः (७-२ -८४ ) इति द्वितीयार्थे तस्प्रत्ययः । सम्यग् बध्नीत ॥ १ ॥