________________
सूरिविनिर्मितम्]
सर्वजिनस्तवनम् .
(२४७)
MARA
[९७ ]
सर्वजिनस्तवनम्। नम्राखण्डलमौलिमण्डलमिलन्मन्दारमालोच्छलत्
सान्द्रामन्दमरन्दपूरसुरभीभूतक्रमाम्भोरुहान् । श्रीनाभिप्रभवप्रभुप्रभृतिकाँस्तीर्थङ्करान् शङ्करान्
स्तोष्ये साम्प्रतकाललब्धजननान् भक्त्या चतुर्विशतिम् १ नन्द्यान्नाभिमुतः सुरेश्वरनतः संसारपारं गतः
क्रोधाधैरजितं स्तुवेऽहमजितं त्रैलोक्यसम्पूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीशम्भवः शम्भवः
पायान्मामभिनन्दनः सुवदनः स्वामी जनानन्दनः ॥२॥ लोकेशः सुमतिस्तनोतु नमति श्रेयःश्रियं सन्मतिं
दम्भद्रौ कलभं मदेभशरभं संस्तौमि पद्मप्रभम् । श्रीपृथ्वीतनयं सुपार्श्वमभयं वन्दे विलीनामयं
श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चन्द्रप्रभम् ३ बोधि नः मुविधे ! विधेहि सुविधे ! कर्मद्रुमौघप्रधे !
जीयादम्बुजकोमलक्रमतलः श्रीमान् जिनः शीतलः । श्रीश्रेयांस ! जय स्फुरद्गुणचयः श्रेयःश्रियामाश्रयः
सम्पूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ४ मोक्षं वो विमलो ददातु विमलो मोहाम्बुवाहानिलो
ऽनन्तोऽनन्तगुणः सदा गतरणः कुर्यात् क्षयं कर्मणः । धर्मों मे विपदं छ्यताच्छिवपदं दद्यात् सुखैकास्पदं
शान्तिस्तीर्थपतिः करोत्विभगतिः शान्ति कृताधक्षितिः ५