SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ( २४४ ) जैनस्तोत्रसन्दोहे [श्रीधर्मघोषसोऽयं सर्वजनीनकल्पविटपी चिन्तामणिः कामधुक श्रीपार्थो भवतादजागृहगतो नित्यं मुदे देहिनाम् ॥१॥ कासश्वासभगन्दरोदरगलग्रन्थिव्यथाविह्वला दुष्टाष्टादशंकुष्टजातिगलितक्षेत्रा अपि प्राणिनः । यन्नामाक्षरकीर्तनामृतरसैः कल्या भवन्ति ध्रुवं श्रीपार्थ तमहं नमामि तरसा शखेश्वरावस्थितम् ॥२॥ नष्टा कष्टपरम्परा परिभवो दूरे न दैन्यं कचिद् रोगः शान्तिमुपैति याति कुमति वास्ति तेषां भयम् । निर्वाणाध्वनि सार्थवाहमसमं ध्यायन्ति ये मानवा वामेयं प्रकटप्रभाववसतिं श्रीस्तम्भनावस्थितम् ॥ ३ ॥ भूपाला भुवि पार्श्वनाथ ! भगवन् ! राज्योन्नति सेवकाः स्वामित्वं सकलार्थसाधककतमं निःस्वा धनानि प्रभो!। रोगार्तास्तदभावमापुरपरे सर्वार्थकामान्नरा स्त्वत्तः साधुजनाः शिवं प्रशमिनो जावालिदुर्गस्थितेः॥४॥ यः पूज्यो जगतां नमन्ति सुधियो यं येन मोहो जितो यस्मै संस्पृहयन्ति चारुमतयो यस्माच्छुभं देहिनाम् । यस्यानन्तचतुष्टयं निरुपमं यस्मिन् स्थितं सद्गुणैः स श्रीपार्श्वजिनेश्वरो वितरताचारूपसंस्थः शिवम् ॥ ५ ॥ भोगिस्कन्धनिबद्भपादयुगलं स्फूर्जत्फणाडम्बरं कायोत्सर्गजुषं शिरीषनगरप्रासादलब्धोदयम् । ध्यानस्थं कमठोपसर्गविगमे कैवल्यलक्ष्मीयुतं श्रीपार्श्व जगतां विदारितरुजं पश्यन्ति धन्या जनाः॥६॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy