________________
( २३२)
जैनस्तोत्रसन्दोहे
[श्रीजिनप्रम
तिमिरासिसमारूढो संतो दुक्खावहो जयम्मि थिरो । बहुलतमासरिससिरी जयचक्खुसुओ जयउ पासो ॥७॥ कवलीकयदोसायेरमायंडरहं अहोतेणुविमुक्कं । लोआभरणीभूअं पासजिणं सत्तमं सरह ॥८॥
अवचूरिः। मण्डलं यस्य स तथा । महाभूतिः-महाचिः करः । असूरैः उपलक्षणस्वाद् भवनपतिभिर्नम्यमानः पार्श्वजिनेन्द्रः कविर्जयतु । कं-ज्ञानं वेत्तीति कवी । अथवा कविः-शुक्रः, स च राज्ञो रूप्यस्य आवत्तौद्रवः तद्वत् समुज्ज्वलं तनुप्रभामण्डलं यस्य स तथा । यतः ‘कविस्त्वत्यन्तधवल: ' (भुवनदीपके श्लो. ३४) अथ कविना कथं राज्यशब्देन रूप्य-चन्द्र पर्यायवाचिस्वादिति ब्रूमः । मघाभूतिः-मघासु भूतिः-जन्म यस्य स तथा । असुरैः-दैत्यः नमस्यमानो यतोऽसुरगुरुत्वात् इति स जयति ॥६॥
तिमिर-अज्ञानं अस्यति-क्षिपतीति शीलं-स्वभावं शं-सुखं भाद् अत्र मोक्षसुखलक्षणं तत्र आरूढः-प्रपन्नः सन्तोऽत्र शमी मष्टादशदोषरहितत्वात् । 'दुक्खावहो' दुःखापहः शरीरिणी शारोरमानसदुःखविघातीति । 'जयम्मि थिरो' जगति-लोके स्थिरः-स्थैर्यवान् । बहुलतमा-भतिशयेन प्रचुरा असदृशी-निरूपमा श्रीः-ज्ञानाविका लक्ष्मीर्यस्य स तथा 'जयचक्खू' जगञ्चक्षुरिव चक्षुः । श्रुतं-सिद्धान्तो यस्य स तथा । जयति पार्श्वः । अथवा स्थिर इति शनैश्चरः स च तिमिराशि:-मीनराशिस्तं समारूढः सन् दुःखावहो भवति । जगति बहुलतमा कृष्णपक्षनिषा तया सरशी श्रीः अत्र श्रीः-गोमा यस्म स तथा । तथा जगषक्षुः-सूर्यसूनुर्जयति ॥ ७ ॥
दोषानां आकरा दोषाकरा एवंविधा माया सा कवलीकृता-- प्रासीकृता येन स तथा तं क०। 'डरहं' भयन्नं समस्तभवा