________________
(२३.) जैनस्तोत्रसन्दोहे [श्रीजिनमभः
कंतीई णिज्जिणितो सिंदूरं पुहइनंदणो कूरो । जयजंतु अमयवक्को सुमंगलो जयइ पासजिणो ॥३॥ उप्पलदलनीलरुई हरिमंडलसंथुओ इलाणंदो । रयणिअरदारओ मह बुहो पसीइज पासपहू ॥४॥
__ अवचूरिः। अथवा सुमङ्गल:-शोभनो मङ्गलग्रहः, कान्त्या शरीरेण निर्जयन् सिन्दूरं रक्तवर्णत्वात् । 'पुहविनंदणो' वसुधासुतः । क्रूरग्रहत्वात् । 'जयजन्तुभमय' इति जगज्जन्तूना अमतो विश्वजनाना अनभीष्टः, वक्रः वक्रगतित्वात् ॥ ३ ॥
नीलनीरजकान्तिः हरिमण्डलै संस्तुतः-इन्द्रमण्डलैः कृतः संस्तवः यस्य सः इन्द्रविहितवर्णनः । इलाया-धराया भानन्ददायित्वात् 'आयुर्वं घृतम्' इति यावत् कारणे कार्योपचारात्' इति । रजो. निकरदारक:-पापप्रकरप्रदलनः ' महबुहो' महाबुधः सर्वज्ञत्वात् । प्रसीदतु पार्श्वप्रभुः।
अथवा 'मह' इति मम बुधो-ग्रहभेदः प्रसीदतु-प्रसादपरो भवतु । 'उप्पल.' इति नीलवर्णत्वात् । 'हरिमण्डल' हरिमण्डलेन सूर्यमण्डलेन सह संस्तवः-परिचयो यस्येति सदा दिनकरमण्डलस्थायित्वात् इति भावः । अथवा उचितो नित्यसंहितत्वात् । इलानंदो' इला नामेति बुधस्त्री तस्था आनन्दः प्राग्वत्, रजनीकर:चन्द्रः तस्य दारकः-सुत इत्यर्थः ॥४॥
टिप्पनकम् । . कात्या-शरीरदीपस्या । २ असिम् खङ्गम् । ३ दरम्-अत्यर्थम् । नन्दनः हर्षदः। ४ भरः-स्वच्छान्तराष्मा। ५ जगज्जत्त्वमृतवाक्यः । ६ कल्याणवान् ।