SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] चतुविशतिजिनस्तवः अवामनतरङ्गौको गभीरस्तिमिराजितः । श्रिये समकरो वः स्तादरनाथो महोदधिः ॥ १९ ॥ मल्लिमहाबलोऽनलसख्यातिप्रथित उच्चकै रयवान् । विदधदहिंसोपचयं पुनातु हरिणाहतो भव्यान् ॥ २०॥ कृतभूतनयादेश उच्चैरक्षोभयावहः । सौमित्रिनन्दतात् पद्मानन्दनो मुनिसुव्रतः ॥ २१॥ अवचूरिः। अनुकूल: सन्तो ये नतास्तेषां भक्तिरागस्य स्थानम् । अतुच्छः । अज्ञानेन अजितः। निरुपमहस्तः-सश्रीहस्तः आविषमहस्तो वा । तेजो धारयन् । महाना-उत्सवाना उदधिर्वा । पक्षे उच्चकल्लालानां स्थानम् । पर्वतभीक्षेपकः । मत्स्यशोभितः। मकरैः सहितः । महान् समुद्र इति विशेष्यम् ॥ १९ ॥ ___ अतिशायिबलः। अमदकीर्तिप्रख्यातः । भाग्यवान् । कुर्वन् जीवदयापोषम् । इन्द्रेण प्रतिपमः । पक्षे वायुः भग्निमव्या अतिविख्यातः। वेगवान् सर्प सपोषम् । मृगं प्रतिपन्नम् तस्य हरिणवाहनत्वन, पृष. दश्वत्वात् ॥ २० ॥ सम्पादितसद्भूतनयोपदेशः, कृतजन्तुनयादेशो वा । स्थिर· लक्ष्म्यावहः । सुमित्रस्य राज्ञोऽपत्यम् । पद्मा भगवतो जननी । पक्षे कृतसीवादेशः । रक्षसो भयावहः । सुमित्राया अपत्यं लक्ष्मण इति विशेष्यम् । पनोऽष्टमबलदेवः ॥ २१ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy