________________
( २२२ ) जैनस्तोत्रसन्दोहे [श्रीजिनप्रभ
सदयो ध्यानगरीयानमोदयददीपयच्च भानुकुलम् । यो वैदेहीहितकृत् स श्रीरामो जयति धर्मः ॥ १६ ॥ नयज्ञपुरुषाधारो वहन्नवसुधाधरम् । अहीनः कोऽपि पायाद्वः श्रीशान्तेर्विस्तरो गिराम् ॥ १७ ॥ रुचितानं सद्धात्रीधवनतमाश्रितमशोकपुन्नागैः । विभ्राजिभृदुलताढ्यं स्तुवेऽवनं पदयुगं कुन्थोः ॥ १८ ॥
अवचूरिः । दयासहितः । ध्यानेन गरीयान् । भानुसंज्ञितस्य निजपितु: कुलं प्रमोदितवान् दोपितवांश्च । वै-निश्चितम् । देहिनां ईहितकारकः । श्रियाभिरामः । पक्षे प्रधानाऽयोध्यासंज्ञा नगरी। तत्सम्बन्धिनो जनान प्रमोदयन् अदीदिपञ्च सूर्यवंश, सूर्यवंशित्वात् तस्य । वैदेही-सीता तस्या हितकारी ॥ १६ ॥
गणधरादीनां विश्रामभूमित्वात् आधारः, प्रधानसुधासादृश्यं वहन् । सर्वगुणसम्पूर्णः काश्चदपूर्वः वाणीप्रपञ्चः । पक्षे अहीन:-शेषस्तस्य नवीनत्वमाह 'नयज्ञपुरुषाधारः' विष्णुविश्रामभूमिः । न धारयन् वसुधाभारम् ॥ १७ ॥
कान्त्यारुणम् । प्रधानपरिवृढनतम् । गतशोकपुरुषकाण्डैराश्रितम् । शोभनशीलम् । सौकुमार्येण समृद्धम् । रक्षकम् । पक्षे रुचिरचुतम् । शोभनामलकोधवाना नतत्वात् वनमपि नतमुच्यते ' अक्षणा काणः' इतिवत् । अशोकपुत्रागैः वृक्षविशेषैः सहितम् । पक्षिविराजमानम् । मृद्धोमिलताभिराढ्यम् । वनमिति विशेष्यम् ॥ १८ ॥