________________
manammannarmannanananananammmmmmmmmmmm.
सूरिप्रणीतः] चतुर्विशतिजिनस्तवः (२२१ ) वया जनसुहृद्रूपः पातु वो धारयन् क्षमाम् । भूरिभोगविरोचिष्णुरनन्तो विष्णुना श्रितः ॥ १४ ॥
पाठान्तरे-----
मञ्जुलाङ्गलसच्छायश्चन्द्रगौरसुरादृतः । जीयादनन्तः श्रीज्येष्ठो भीमतालोपलक्षितः ॥ १५ ॥
___ अवचूरिः। प्रधानाम् । प्रशस्यः सुहृत् सुहृद्रपा प्रशस्तार्थे रूपम् प्रत्ययः । ततः षष्ठीसमासः । शान्तिम् ॥ भनेकभोगविमुखः । इन्द्रेण श्रितः। पक्ष-प्रधानाञ्जनसमानरूपः । ननु सिततरकान्तिवान् शेषनागराजस्य इदं विशषणमनुपपन्नम् । नैवम् । सितत्वेनाऽसितस्वेन च तस्य द्विधापि शास्त्रे प्रसिद्धत्वात् । कथमेत ? इत्युच्यते स च श्यामोऽथवा शुक्लः सितपकजलाञ्छनः' (अभि. कां.४, श्लो. ३७४) इति निघण्टुवचनप्रामाण्यात् इति । पृथिवीम् ।अनेकफणविराजमानः । शेषाहिः नारायणेन श्रितः तत्पृष्ठशायित्वात् तस्यैवमुक्तिः ॥ १४ ॥
मजुला मनोरमाऽङ्गस्य लसन्ती छाया-कान्तिर्यस्य । नन्वेतावता भगवतः कान्तः शोभनस्वमवगतम् सामान्येन । परं महतां पञ्चवर्णसम्भवेन च वर्णविशेषावगतिः । इत्याह 'चन्द्रगौर' इति 'चन्द्रौ स्वर्णकर्पूरौ'
) इति वचनात चन्द्रगौर:-कनककान्तिरित्यर्थः देवाश्रित:-कमलाप्रधानः रौद्रताभावराजितः । पक्षे चारुहलसशोभः 'अवदातगौरशुभ्रवलक्षधवलार्जुनाः' एकार्थाः (आभि. का. ६ श्लो.२९) इतिवचनात् चन्द्र इव गौरः सितः-श्वेतवर्ण इत्यर्थः । मदिरासक्तः प्रियमधुत्वात् तस्य । बलभद्रः-कृष्णाग्रजस्वात् श्रियो ज्येष्ठः भीमो यस्ताल: स ध्वजे यस्य स तथा ।। १५ ॥