________________
( २२० )
जैनस्तोत्रसन्दोहे
[श्रीजिनप्रभ
प्रीयाद् वः काञ्चनरुचिराजीवाध्यासिनी नलिनहस्ता । विष्णुं प्रमोदयन्ती श्रीश्रेयांसस्य सा मूर्तिः ॥ ११ ॥ तिरस्कुर्वन् कायकान्त्या सिन्दूरं महिषध्वजः । समवर्ती वासुपूज्यः सूर्यानन्दी सुरवाय वः ॥ १२ ॥ विमल: सौम्योऽशं मे भोगासक्तः स हेलया हन्यात्। हरितालसमानरुचिर्यः श्यामापतिमतोषयत ॥ १३ ॥
अवचूरिः। सुवर्णवर्मा । जीवानां आधि मनोव्यथा अस्यति इति-क्षिपतीत्येवंशीला या सा तथा । कमलं हस्ते लक्षणत्वेन यस्याः सा । तथा विष्णु भगवपितरं नन्दयन्ती। प्रसिद्धा । काञ्चनकान्तिकमलोपवेशिका । कमलकामलकरा नारायणं श्रीः ॥ ११ ॥
अतिशायिरत्नकान्तित्वात् सिन्दूरमधःकुर्वन् इत्यर्थः । महिषलान्छनः । मध्यस्थः । सूरीणां-विदुषां आनन्दनशीलः । पक्षे मृशं असि. सकान्तित्वेन असिं-कृपाणं क्षिपन् । महिषवाहनो-यमः सूर्यसुतत्वात् सूर्यानन्द नशीलः ॥ १२ ॥ ___अभीमः दुःखं मम सांसारिकसौख्येष्वसक्तः । प्रसिद्धः। वेगेन। हन्तु। हरितालेन पीतत्वेन समाना रुचिर्यस्य स तथा, सुवर्णकान्तिरित्यर्थः । श्यामाख्या भगवतो माता तस्याः पतिः-भर्ता श्रीकृतवर्मा तं निजपितरमित्यर्थः । पक्षे बुधः-सोमस्यापत्यमिति व्युत्पत्तेः । फला. भिधया निजप्रियया सह-साकं सौरव्यासक्त इत्यर्थः । हरिता- नीला । आ-समन्तात् 'लस श्लेषणे' इत्यस्मात् शाने लसमाना-लसनशीला रुचिर्यस्य सः तथा । कोऽर्थः ? 'साहित्ये कालनीलयोरक्यम्, इतिकृत्वा श्यामाङ्ग इत्यर्थः । श्यामा-रात्रिस्तस्याः पर्ति चन्द्रमसम् तत्पु. नत्वात् तदानन्दकारित्वं बुधस्य ॥ १३ ॥